________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ १२६
1
1
श्नुविधौ निर्दिष्टस्य सौत्रस्यैव तत्र ग्रहणात् । तद्वीजं तु ' - स्थास्तम्भोः-' ( सू ११८ ) इति पवर्गीयोपधपाठः, 'स्तन्भेः' ( सू २२७२ ) इति तवर्गीयोपधपाठश्चेति माधवः । केचिदस्य टकार औपदेशिक इत्याहुः, तन्मते विष्टम्भते, ष्टम्भते, टष्टम्भे । जभी ३८८ नृभि ३८६ गात्रविनामे । २३०२ रधिजभोरचि । ( ७-१-६१ ) एतयोर्नुमागमः स्यादचि । जम्भते । जजम्भे । जम्भिता । श्रजम्भिष्ट | जृम्भते । जजृम्भे । शदभ ३३० करथने । शशलभे । वल्भ ३९१ भोजने । दन्त्योष्ठ्ट्यादिः । ववलभे । गल्भ ३१२ घाष्ट् । गल्भते । श्रम्भु ३६३ प्रमादे । तालग्यादिर्दन्त्यादिश्च । श्रम्भते । स्रम्भते वा । ष्टुभु तस्य ‘खरि च' इति चत्वें तकार इत्यर्थः । अत्र यद्वक्तव्यं तत् ' उदः स्थास्तम्भोः-' इत्यत्र हल्सन्धौ प्रपञ्चितम् । विस्तम्भत इति । सात्पदाद्येोरिति षत्वनिषेध इति भावः । नन्वेवमपि 'स्तन्भः' इति षत्वं कुतो न स्यादित्यत श्राह स्तन्भेरिति षत्वं तु न भवतीति । कुत इत्यत आह श्नुविधाविति । 'स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च' इति सूत्रे निर्दिष्टस्यैव प्रतिपदोक्तस्य षत्वविधौ ग्रहणादित्यर्थः नन्वेवं सति ‘उदःस्थास्तम्भो:-' इति पूर्वसवर्णविधावपि सौत्रस्यैव ग्रहणं स्यादित्यत आह तद्वीजं त्विति । षत्वविधौ सौत्रस्यैव ग्रहणम्, पूर्वसवर्णविधौ तु तदन्यस्यापीत्यत्र प्रमाणमित्यर्थः । ननु पूर्वसवर्णविधौ मोपधस्य, षत्वविधौ तु नोपधस्य पाठ इत्यत्र किं प्रमाणमित्यत आह इति माधव इति । पाणिनिशिष्यपरम्परैव तत्र प्रमाणमिति भावः । लिटि 'शर्पूर्वाः खयः' इति षकारस्य निवृत्तौ ष्टुत्वनिवृत्त्या तकारः शिष्यते । तस्तम्भे । टकार औपदेशिक इति । स्वाभाविक एव टकारो न तु ष्टुत्वसंपन्न इत्यर्थः । तन्मते विष्टम्भत इति । तथा च षकारस्यापि स्वाभाविकत्वात् षत्वविधौ स्तन्भेरेव ग्रहणेऽपि षकारो निर्बाध इति भावः । टष्टम्भ इति । 'शर्पूर्वा :-' इति टकार एव शिष्यत इति भावः । जभी नृभि गात्रविनाम इति । गात्रस्य विनामः वक्रभावः । श्राद्य ईदित् । द्वितीय इदित् । श्रद्यस्य ईदित्त्वं 'श्वीदितो निष्ठायाम्' इति इरिनषेधार्थम् । रधिजभोः । ' रध हिंसायाम्' इति श्यविकरणस्य चतुर्थान्तस्य इका निर्देशः । ' इदितो नुम् धातोः' इत्यतो नुमित्यनुवर्तते, तदाह एतयोरिति । अनिदित्त्वाद् नुंविधिः । जम्भत इति । शपि नुम् । जम्भितेत्यादाविटि अच्परकत्वान्नुम् । 'अचि' किम् ? रद्धा, जन्धम् । श्रम्भु इति । अकारमध्यः । ष्टुभु स्तम्भ इति । ष्टुत्वेन तकारस्य टः । षोपदशोऽयम् । लोपश्च' इति बाह्वादिपाठादिनि सलोपः । तद्वीजं त्विति । पूर्वसवर्णप्रवृत्तेः षत्वाप्रवृत्तेश्च बीजमित्यर्थः । रधिजभोरचि । रन्धयति । परापि वृद्धिर्नित्येन नुमा