________________
१२८ ] सिद्धान्तकौमुदी। [ भ्वादि३७२ लेप ३७३ गतौ । पूष ३७४ लजायाम् । जपते । २३०१ तृफलभजत्रपश्च । (६-४-१२२) एषामत एकारोऽभ्यासलोपश्च स्यास्किति लिटि सेटि थलि च । पे पाते पिरे । ऊदित्वादिडवा। पिता, बृप्ता । त्रपिषीष्ट, अप्सीष्ट । कपि ३७५ चलने । कम्पते । चकम्पे । रबि ३७६ लबि ३७७ अघि ३७८ शन्दे । ररम्बे । ललम्बे । प्रानम्बे। लबि ३७६ अवयंसने च । कबु ३८० वर्णे । चकबे । क्रीबृ ३८१ अधाष्टर्ये । चिक्रीवे । तीबृ ३८२ मदे । सीबते । शीभृ ३८३ करथने । शीभते । चीभृ ३८४ च । रेझ ३८५ शब्दे। रिरेभे । अभिरभी कचित्पठ्येते । अम्भते । रम्भते। ष्टभि ३८६ स्कभि ३८७ प्रतिबन्धे । स्तम्भते । नुम्यनुस्वारः । उत्तम्भते । 'उदः स्थास्तम्भोः -' (सू११८) इति पूर्वसवर्णः । विस्तम्भते । 'स्तन्भेः' (स २२७२) इति षत्वं तु न भवति । पुनः पाठः । अन्यथा ग्लेप दैन्ये कम्पने गतौ चेति गौरवं स्यादिति भावः । त्रपू. षिति । ऊकारः षकारश्च इत् । अदुपधः । संयुहहल्मध्यस्थत्वादेत्त्वाभ्यासलोपयोरप्राप्तावाह तृफल । 'अत एकहल्मध्ये-' इत्यतः अत इति लिटीति चानुवर्तते । 'ध्वसोः' इत्यत एदिति अभ्यासलोपश्चति च, 'गमहन-' इत्यस्मात् कितीति, 'थलि च सेटि' इति सूत्रं च, तदाह एषामिति । गुणशब्देन भाविताकारवत्त्वाद्विरूपादेशादित्वादेकहल्मध्यस्थत्वाभावाचाप्राप्ते विधिरयम् । आनम्ब इति। द्विहल्त्वान्नुस् । ष्टभि स्कभीति । आद्यः षोपदेशः, ष्टुत्वेन तकारस्य टकारनिर्देशेन दन्त्यपरकसादित्वात् , ततः षस्य सत्वे ष्टुत्वस्य निवृत्तिः, तदाह स्तम्भत इति । नुम्यनुस्वार इति । इदित्त्वान्नुमि 'नश्चापदान्तस्य-' इति तस्यानुस्वारः । 'अनुस्वारस्य ययि-' इति तस्य परसवर्णो मकारः । ष्टम्भ इत्येव पाठे तु प्रतिपदोक्तत्वाद् 'उदः स्था-' इत्यत्र अस्यैव प्रहणं स्यादिति भावः। पूर्वसवर्ण इति । सकारस्य थकारः। गतौ चेति । योगविभागसामर्थ्यादेवार्थद्वयलाभे चकारो व्यर्थ इत्यन्ये । पुनः पाठ इति । दैन्ये पठितस्य कम्पनाद्यर्थलाभार्थमिति भावः । तृफल । तरतरकारस्य गुणशब्देन भावितत्वात्फलमजोर्वैरूप्यसंपादकादेशादित्वात् त्रपतेस्त्वेकहलमध्यस्थत्वाभावादप्राप्ते विधिरयम् । तेरतुः, तेरुः । फेलतुः, फेलुः । भेजतुः, भेजुः । अबि शब्दे । अस्माद् 'गुरोश्च हलः' इति अप्रत्यये अम्बाशब्दः । तिस्रः अम्बा अकारोकारमकारात्मकाः शब्दा यस्य इति बहुव्रीही 'शेषाद्विभाषा' इति कप्रत्यये त्र्यम्बक इत्येके । केचित्तु त्रीणि अम्बकानि नेत्राणि यस्येति विगृह्णन्ति । अभिरभी इति । 'सर्वधातुभ्योऽसुन्' इत्यधिकारे 'उदके नुम्भौ च' इति वक्ष्यमाणत्वाद् धात्वन्तरेणापि अम्भःशब्दः सिध्यतीति बोध्यम् । अम्भस्तोयम् , तस्यापत्यमाम्भिः भीष्मः । 'अम्भसो