________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १२७
I
परौ फलादी लिङात्मनेपदपरः सिञ्चत्येतौ कितौ स्तः । कित्त्वान्न गुणः । तिप्सीष्ट तिप्सीयास्ताम् तिप्सीरन् । लुङि 'झलो झलि' ( सू २२८१ ) इति सलोपः । प्रतिप्त प्रतिप्साताम् श्रतिप्सत । तेपते । तितेपे । तेपिता । तिष्टिपे तिष्टिपाते तिष्टिपिरे । तिष्टेपे तिष्टेपाते तिष्टेपिरे । तेपृ कम्पने च । ग्लेपृ ३६६ दैन्ये । ग्लेपते । टुवेट ३६७ कम्पने । वेपते । केट ३६८ गेट ३६६ ग्लेपृ ३७० च । चाकम्पने गतौ च । सूत्रविभागादिति स्वामी । मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्पने इत्यपेक्षत इत्याह । ग्लेपेरर्थभेदात्पुनः पाठः । मेपृ ३७१ रेपृ न्ताच्च' इति च सूत्रमनुवर्तते । 'असंयोगात् -' इत्यतः किदिति च । इक इति सामीप्ये षष्ठी हलि अन्वेति तदाह इक्समीपादित्यादिना श्रात्मनेपदपरकत्वं सिच एव विशेषणम्, न तु लिङः, लिङादेशस्यात्मनेपदस्य लिङः परत्वासंभवात् । 'इकः ' किम् ? वह् वक्षीष्ट । सति तु कित्त्वे 'वचिखपि -' इति संप्रसारणं स्यात् । 'आत्मपदेषु' किम् ? द्राक्षीत् । इह कित्त्वे सति 'सृजिदृशोर्भल्यमकिति' इत्यम् न स्यात् । अतिप्तेति । लुङस्तादेशे, चिलः, सिच् । 'झलो झलि' इति लोपः । आत्मनेपदपरकत्वेन सिचः कित्त्वाद् न लघूपधगुणः । अथ तेपृधातोरेदुपधत्वस्य प्रयोजनमाह तितेप इति । इदुदुपधत्वे तु कित्त्वाद् गुणो न स्यादिति भावः । सेट्कोऽयमिति सूचयति तेपितेति । तेपिषीष्ट । अपिष्ट । ष्टिपृधातोस्तु 'धात्वादेः षः सः' इति सत्वे ष्टुत्वनिवृत्त्या लटि स्तेपत इति रूपं सिद्धवत्कृत्य लिटि रूपमाह तिष्टिप इति । 'शर्पूर्वाः खयः' इति तकारः शिष्यते, षकारस्य निवृत्तौ ष्टुत्वनिवृत्तेः । कित्त्वान्न गुणः । तिष्टप इति । ष्टेपृधातोः रूपम् । तेपृ कम्पने चेति । चात्क्षरणे । वस्तुतस्तु चकारेण क्षरणार्थस्य लाभात् पूर्वत्रास्य पाठस्त्यक्तुं शक्यः । केचित्तु दे इति वर्गतृतीयादिं पठन्ति । चात्कम्पने गतौ चेति । अनुक्तसमुच्चयार्थ - श्चकार इति भावः । एतच्च टुवेट केट गेट ग्लेट कम्पन इत्येव सिद्धे पृथक्पाठालभ्यते । अर्थभेदादिति । 'ग्लेपृ दैन्ये' इति पूर्वं पठितम् । इह तु श्रर्थभेदात्
त्मनेपदेषु । 'इको झल्' 'इलन्ताच्च' इति वर्तते । 'असंयोगाल्लिट् कित्' इत्यतः किदिति च तदाह इक्समीपादित्यादि । इकः किम्, यक्षीष्ट । सति कित्त्वे संप्रसारणं स्यात् । श्रात्मनेपदेति किम् अद्राक्षीत् । कित्त्वे सति 'सृजिदृशोर्भल्यमकिति' इत्यम् न स्यात् । श्रात्मनेपदपरत्वं सिच एव विशेषणं न तु लिङ्स्थानिकस्यात्मनेपदस्य, लिङः परत्वासंभवात् । तेपृ कम्पने च । चकारात्क्षरणार्थस्य लाभादस्य पूर्वत्र पाठस्त्यक्तुं शक्यः । केचित्तु तिपृ तेपृ इति पठन्ति । टुवेपृ । वेपथुः । केट गेट ग्लेपृ च । योगविभागात्पूर्वोत्तरार्थौ चकारेणानुकृष्येते, तदाह चात्कम्पने ।