________________
१२४ ] सिद्धान्तकौमुदी। [ भ्वादि(सू ३०३६ ) इतीएिनषेधार्थः । केचित्तु इदितं मत्वा नुमि कृते कण्टतीत्यादि वदन्ति । अन्ये तु इ ई इति प्रश्लिष्य, अयति । इयाय इयतुः इयुः । इययिथ, मेदित्पठितः, इह ईदित्पठ्यते । एदित्त्वाभावाद् ‘ह्ययन्त-' इति वृद्धिनिषेधो न भवति । अकटीत् , अकाटीत् । ननु तर्हि कटेत्येव कुतो न पठ्यत इत्यत आह ईकार इति। केचित्त्विति । कटि इति हस्तान्तपाठं मत्वा इदित्त्वान्नुमि कृते अनुस्वारे परसवर्णे च कण्टतीति वदन्तीत्यर्थः । अन्ये विति । उदाहरन्तीत्यन्वयः । प्रश्लिष्यति । कटि इत्यनन्तरम् इ ई इति धातुद्वयं सवर्णदीर्घेण प्रश्लिष्य निर्दिष्टमिति भावः । अयतीति । इधातोर्लटि शपि गुणे अयादेशः। इयायेति । णलि द्वित्वे वृद्धौ आयादेशे 'अभ्यासस्याऽसवणे' इति इयङ् । इयतुरिति । इकारोऽत्र ह्रखः । तथाहि-इ अतुसिति स्थिते कित्त्वाद् गुणाभावे 'द्विर्वचनेऽचि' इति निषेधायणभावे इ इत्यस्य द्वित्वे इ इ अतुसिति स्थिते सवर्णपरकत्वादभ्यासस्य इयभावे सति 'वार्णादाङ्गं बलीयः' इति सवर्णदीर्घ बाधित्वा ‘एरनेकाच-' इत्युत्तरखण्डस्य यणि इयतु. रिति रूपम् । इधातोर्भारद्वाजनियमात्थलि वेट । तत्र इट्पक्ष रूपमाह इययिथेति। थलि द्वित्वे इटि पित्त्वेन कित्त्वाभावाद् गुणे अयादेश अभ्यासस्य इयङ् । नच 'अचः परस्मिन्-' इति गुणस्य स्थानिवत्त्वेन असवर्णपरत्वाभावात् कथमभ्यासस्य इयबिति वाच्यम् , असवर्णग्रहणसामर्थ्यादेव स्थानिवत्त्वाप्रसक्तेः । एवं णलि इयायेत्यत्रापि इयायेति । द्वित्वे कृते णलि वृद्धौ सत्यामायादेशः । 'अभ्यासस्यासवणे' इति इयङ्। ईयतुरिति । द्वित्वे कृते 'एरनेकाच-' इति यणं बाधित्वा अन्तरगत्वात्सवर्णदीर्घः । ततः 'अचि श्नुधातु-' इतीयङ् । एकादेशस्य पूर्वान्तत्वेन अभ्यासग्रहणेन ग्रहणात् । 'अभ्यासस्यासवर्णे' इत्यनेनेत्येके । केचित्तु–'वार्णादाङ्ग बलीयः' इति दीर्घ बाधित्वा यण। न चेह समानाश्रयत्वं नेति वाच्यम् , अभ्यासोत्तरस्येकारस्य सवर्णदीर्घयणौ प्रति स्थानित्वेन तयोः समानाश्रयत्वात् । अतएव ईयतुरित्यत्र 'इणो यण' इति यणि ततो 'दीर्घ इणः किति' इत्यभ्यासस्य दी| विधीयते । अन्यथा सूत्रमिदं निर्विषय स्यात् , अभ्यासाभावादित्याहुः । स्यादेतत्-णस्थलोस्त्वभ्यासस्येयङ् दुर्लभः । तस्मिन्कर्तव्ये 'अचः परस्मिन्-' इति वृद्धिगुणयोः स्थानिवद्भावेन असवर्णे इति प्रतिषेधादिति चेत् । मैवम् , असवर्णग्रहणसामर्थ्यादेव स्थानिवत्त्वस्याप्रवृत्तेः । ननु नास्ति सामर्थ्यम् । इयति इयत इत्यादौ सावकाशत्वादिति चेत् । अत्राहुः-नोकमुदाहरणं योगारम्भं प्रयोजयति। अन्यथा हि 'अभ्यासस्या?' इति ब्रूयात् ।एवं चान्तरमत्वात्सवर्णदीचे कृते ततो वृद्धिगुणोः सतोः णलि आय, थलि एथ, इटपक्षे तु अयियेति स्यादित्याशङ्कापि न कार्या। 'अभ्यासस्यासवणे' इत्यस्य वैयर्थ्यापतेरिति ।