________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१२३ सिचि । प्रकटीत् । अट २६५ पट २६६ गतौ । प्राट आटतुः पाटुः । पपाट पेटतुः पटुः । रट २६७ परिभाषणे । रराट । लट २९८ बाल्ये। ललाट । शट २६६ रुजाविशरणगत्यवसादनेषु । शशाट । वट ३०० वेष्टने। ववाट ववतुः ववटुः । ववटिथ । किट ३०१ खिट ३०२ त्रासे । केटति । खेटति । शिट ३०३ षिट ३०४ अनादरे । शेटति । शिशेट । सेटति । सिष्ट । जट ३०५ झट ३०६ संघाते । भट ३०७ भृतौ । तट ३०८ उच्छ्राये । खट ३०६ काक्षायाम् । पट ३१० नृत्ती । पिट ३११ शब्दसंघातयोः । हट ३१२ दीप्तौ । षट ३१३ अवयवे। लुट ३१४ विलोडने । डान्तोऽयमित्येके । चिट ३१५ परप्रेष्ये । विट ३१६ शब्दे । बिट ३१७ आक्रोशे । बशादिः । हिट इत्येके । इट ३१८ । किट ३१६ कटी ३२० गतौ । एटति । केटति । कटति । ईकारः 'श्वीदितो निष्ठायाम्' तदनुवृत्तेरिति भावः । इडादौ सिचीति । 'मिचि वृद्धि:-' इत्यतः सिचीति 'नेटि' इत्यत इटोति चानुवर्तत इति भावः। अकटीदिति । एदित्वान्न वृद्धिः। अट पटेति । 'श्रत आदेः' इति दीर्घ मत्वा आह आटेति । पेटतुरिति । एत्त्वाभ्यासलोपौ । वट वेष्टने । ववटतुरिति । 'न शसददवादिगुणानाम्' इति निषेधः । ववटिथेति । अत्र 'थलि च सेटि' इति प्राप्तस्य 'न शसदद-' इति निषेधः । किट खिट त्रास इति । यद्यपि 'इट किट कटी गतौ' इति अग्रे किटधातुः पठ्यते, तथाप्यर्थभेदात् पुनरिह पाठः । खिट त्रासे किट गतौ चेति पठितुं युक्तम् । शिट पिटेति । आद्यस्तालव्यादिः, द्वितीयस्तु षोपदेशः । जट झटेति । श्राद्यस्य अवरूप्यापादकादेशादित्वादेत्त्वाभ्यासलोपौ, द्वितीयस्य तु न । जेटतुः। जझटतुः । णट नृत्ताविति । णोपदेशः । चुरादेरेव नाटेः पर्युदासादयं णोपदेश एव । प्रणटति । इट किट कटी गताविति । कटे वर्षावरणयोरिति कटिः पूर्वयति-' इत्यादिना चङि निषिद्धे औनयीदिति उदाहरणम् । टुअोश्चि । अश्वयीत् । इडादौ सिचीति । इडादौ किम् , दह भस्मीकरणे अधाक्षीत् । किट खिट। इट किटेति । किटिर्गतौ पठिष्यते । इह पाठस्त्वर्थभेदात् । जट झट । जेटतुः । जझटतुः । इह त्वादेशादित्वादेत्वाभ्यासलोपौ न । खट। 'शू प्रषिलटिखटिकणिविशिभ्यः क्वन्' । खट्वा । णट नृतौ । प्रणटति । णोपदेशपर्युदासे नाटीति सवृद्धिकनिर्देशेन 'नट अवस्यन्दने' इति चौरादिकस्यैव ग्रहणादयं णोपदेश एव । हट दीप्तौ। हाटकं सुवर्णम् । 'संज्ञायां च' इति एवुल बाहुलकादस्त्रियामपि । शट । पचाद्यजन्ताट्टाप् । 'सटा जटाकेसरयोः' । चिट । 'सर्वधातुभ्यः-' इति औरणादिक इन् । चेटिः। 'कृदिकारात्-' इति डीए । चेटी। विट । इगुपधलक्षणः कः । विटः ।