________________
१२२ ]
सिद्धान्तकौमुदी ।
[ स्वादि
I
अनादरे । जिहेडे । जुहोडे । बाडृ २८६ प्राप्लाम्ये । बशादिः । आप्लाव्यमाप्लवः । बाडते । द्वाडृ २८७ धाडू २८८ विशरणे । द्राइते | धाडते । शाड़ २८६ श्लाघायाम् । शाडते ।
अथ गड्यन्ताः परस्मैपदिनः । शौट्ट २६० गर्ने । शौति । शुशोट । यौ २६१ बन्धे । यौटति । म्लेट्ट २६२ ब्रेड २९३ उन्मादे । द्वितीयो डान्तः । टान्तमध्ये पाठस्त्वर्थसाम्यान्नाथतिवत् । म्लेटति । ग्रेडति । कटे २६४ वर्षावरणयोः : । चटे इत्येके । चकाट । सिचि 'तो हलादेर्लघोः' ( सू २२८४ ) इति वृद्धौ प्राप्तायाम् । २२६६ ह्यन्तक्षणश्वसजागृणिश्व्येदिताम् । ( ७-२-५ ) हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्न स्यादिडादौ वक्ष्यते । शाडृ श्लाघायामिति । डलयोरैक्यात् शालत इति कश्यपः । इत्यट्टादयः षट्त्रिंशद्गताः ।
1
अथ गड्यन्त इति । गडि वदनैकदेश इत्यन्त इत्यर्थः । म्ले ब्रेड इति । एदुपधौ । द्वितीयो डान्त इति । टवर्गतृतीयान्त इत्यर्थः । ननु टान्तेध्वस्य कथं पाठः, चुड्ड भावकरण इत्यारभ्यानुक्रम्यमाणेष्वेवास्य पठितुं युक्तत्वादित्यत आह टान्तमध्य इति । नाथतिवदिति । एध वृद्धावित्यारभ्यानुक्रान्तेषु तवर्गचतुर्थान्तषु यथा नाथू ना याच्ञेति तवर्गद्वितीयान्तस्यापि अर्थसाम्यात्पाठः, तद्वदित्यर्थः । कट इति । कण्ठ्यादिः । चट इति । तालव्यादिः । प्राद्यस्य लिटि अभ्यासस्य चुत्वमित्याह चकाटेति । चकटतुः । द्वितीयस्य चेटतुः, वैरूप्यापादकादेशादित्वाभावादेत्त्वाभ्यासलोपौ । प्राप्तायामिति । हलन्तलक्षणाया नित्यवृद्धेः 'नेटि' इति निषेधाद् ‘अतो हलादे:-' इति वैकल्पिकवृद्धौ प्राप्तायामित्यर्थः । यन्त ।
यन्त क्षण श्वस जागृ णि श्वि एदित् एषां द्वन्द्वात्षष्ठी । ह् म् य् इत्येते वर्णा येषामन्ते ते ह्ययन्ताः, तदाह हमयान्तस्येति । क्षणादेरिति । श्रादिना श्वस जागृ इत्यनयोर्ग्रहणम् । रायन्तस्येति । प्रत्ययग्रहण परिभाषया णिग्रहणेन तदन्तग्रहणमिति भावः । श्वयतेरिति । विधातोरित्यर्थः । एदित इति । एतू इत् यस्येति विग्रहः । वृद्धिर्न स्यादिति । 'सिचि वृद्धि: -' इत्यतो 'नेटि' इत्यतश्च शडि । ‘शण्डोऽसुरपुरोहितः' । द्वाड । विशरणमवयवविभागः । शाड । डलयोरैक्यात् शालते इति काश्यपः । शौट्ट गर्ने । श्रस्योणादिषु ईरन्वक्ष्यते । 'तदेतदतिशौटीर्यमौडुलोमेर्न मृष्यति' इति कल्पतरुः । कटे । धन्तक्षण । अग्रहीत् । टुवम् । श्रवमीत् । हय गतौ । श्रहयीत् । क्षणु हिंसायाम् । श्रक्षणीत् । श्वस प्राणेन । अश्वसीत् । जागृ निद्राक्षये । अजागरीत् । ण्यन्ते छन्दसि 'नोनयतिध्वन