________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१२१ २५५ वेष्टने । विवेष्टे । चेष्ट २५६ चेष्टायाम् । अचेष्टिष्ट । गोष्ट २५७ लोष्ट २५८ संघाते । जुगोष्टे । लुलोष्टे घट्ट २५६ चलने । जघट्टे । स्फुट २६० विकसने । स्फोटते । पुस्फुटे । अठि २६१ गतौ । अण्ठते । पानण्ठे । वठि २६२ एकचर्यायाम् । ववण्ठे । मठि २६३ कठि २६४ शोके । शोक इह श्राध्यानम् । मण्ठते । कण्ठते । मुठि २६५ पालने । मुण्ठते । हेठ २६६ विबा. धायाम् । विबाधा शाठयम् । जिहेठे । एठ २६७ च । एठांचके। हिडि २६८ गत्यनादरयोः । हिण्डते । जिहिण्डे । हुडि २६६ संघाते । जुहुण्डे । कुडि २७० दाहे । चुकुण्डे । वडि २७१ विभाजने । मडि २७२ च । ववरडे । भडि २७३ परिभाषण । परिहासः सनिन्दोपालम्भश्च परिभाषणम् । बभण्डे । पिडि २७४ संघाते । पिपिएडे । मुडि २७५ मार्जने । मार्जनं शुद्धिय॑ग्भावश्च । मुण्डते । तुडि २७६ तोडने । तोडनं दारणं हिंसनं च । तुण्डते । हुडि २७७ वरणे । वरणं स्वीकारः । हरणे इत्येके । हुण्डते । चडि २७८ कोपे। चण्डते । शडि २७६ रुजायां संघाते च । शण्डते । तडि २८० तण्डते । पडि २८१ गती। पण्डते । कडि २८२ मदे । कण्डते । खडि २८३ मन्थे । हेड २८४ होड २८५ द्वित्वे कर्तव्ये ष्टुत्वस्यासिद्धत्वेऽपि 'नन्दाः-' इति निषेधाभावात्तकारविशिष्टस्य तटि स् इत्यस्य द्वित्वे हलादिशेषेण टकारस्य निवृत्त्या अतिट्टिषते इति रूपमिति भावः । प्रान इति । इह 'नन्दाः-' इति निषेधो न, तत्र द्वितीयस्यैकाच इत्यनुवृत्तेः। घट्ट चलन इति । अयं चुरादावपि । स्फुट विकसन इति । अयं कुटादावपि । अठि गताविति । लिटि नुमि द्वित्वे हलादिशेषे 'अत प्रादेः' इति दीर्घ 'तस्मान्नुदिहलः' इति नुडिति मत्वाह प्रानण्ठ इति । वठि एकचर्यायामिति । असहायचर्याया। मित्यर्थः । मडि चेति । विभाजन इत्यनुषज्यते। मेडि भूषायामिति परस्मैपदिषु ट्टिषते आतिदित्यादि बोध्यम् । हलादिःशेषेण टकारनिवृत्तौ तनिमित्तस्यापि ष्टुत्वस्य निवृत्तत्वादिति नव्याः । मनोरमायां तु 'पूर्वत्रासिद्धीयमद्विवचने' इति ष्टुत्वस्यासिद्धत्वाभावाट्टकारद्वयसहितस्य द्वित्वे हलादिःशेषे अटिट्टिषते आटिट्टदित्यादि सिध्यती. त्युक्तम् । 'निमित्तापाये नैमित्तिकस्याप्यपायः' इति त्वनित्यमिति तदाशयः । आनट्ट इति । इह 'न न्द्रा:-' इति निषेधो न, तत्र द्वितीयस्येत्यनुवर्तनाद् द्वितीयैकाच एव नदराणां निषेधात् । घट्ट चलने । अयं चुरादावपि । स्फुट । अयं कुटादावपि । आनण्ठ इति। 'तस्मान्नुड् द्विहलः' इति नुट् । वण्ठत इति । सहायं विना चरतीत्यर्थः । मडि च । पृथक्पाठादयं वेष्टनेऽपीत्याहुः । मडि भूषायामित्यप्रे परस्मैपदिषु । भडि । 'यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्' इत्यमरः ।