________________
१२० ]
सिद्धान्तकौमुदी ।
[ भ्वादि
1
लाज २४० लाजि २४१ भेर्जने च । जज २४२ जजि २४३ युद्धे । तुज २४४ हिंसायाम् । तोजति । तुतोज । तुजि २४५ पालने । गज २४६ गजि २४७ गृज २४८ गृजि २४३ मुज १५६ मुजि २५१ शब्दार्थाः । गज मदने च । वज २५२ व्रज २५३ गतौ । ववजतुः । 'वदनज-' (सू २२६७) इति वृद्धिः, श्रव्राजीत् । अथ टवर्गीयान्ताः शान्ता अनुदात्तेतः षट्त्रिंशत् । श्रट्ट २५४ श्रतिक्रमहिंसयोः । दोपधोऽयम् । तोपध इत्यन्ये । श्रट्टते । श्रनट्टे । वेष्ट क्यादिति भावः । लज लजि भर्त्सन इति । 'भर्त्सनं त्वपवादगीः' इत्यमरः । द्वितीय इदित् । आशीर्लिङि लज्यात् । लज्ज्यात् । लाज लाजि भर्जन इति । श्रादुपधौ । द्वितीय इदित् । जज जजीत्यादि । स्पष्टम् । वज व्रजेति । श्रद्यस्य श्रसंयुक्तहल्मध्यस्थाकारवत्त्वेऽपि 'न शसददवादिगुणानाम्' इत्येत्त्वाभ्यासलोपो नेत्याह ववजतुरिति । श्रवाजीत्, अवजीत् । द्वितीयस्य तु संयुक्तहलमध्यस्था कारवत्त्वादेवत्वाभ्यासलोपयोर्न प्रसक्तिः । श्रव्राजीदित्यत्र 'तो हलादे:-' इति वृद्धिविकल्पमाशङ्कयाह वदव्रजेति वृद्धिरिति । हलन्तत्वादेव सिद्धे व्रजप्रहणस्य 'अतो हलादे:-' इति विकल्पनिरासार्थत्वादिति भावः । शुचादयो द्विसप्ततिर्वृत्ताः ।
शान्ता इति । शाडृ श्लाघायामित्यन्ता इत्यर्थः । शाडयन्ता इति क्वचित्पाठः । अट्टेति । तवर्गतृतीयोपधोऽयम् । चर्त्वष्टुत्वाभ्यां टोपघनिर्देशः, तदाह दोपधोऽयमिति । तथा च श्रट्टधातोः सनि इटि अट्टि स इति स्थिते टुत्वचर्त्वयोरसिद्धत्वाद् 'अजादेर्द्वितीयस्य' इति प्रवर्तमानं द्वित्वं 'नन्द्रास्संयोगादयः' इति दकारं विहाय टिस् इत्यस्य भवति । ततो हलादिशेषे दकारस्य ष्टुत्वचत्वयोः अट्टि टिषत इतीष्टं सिध्यति । स्वाभाविकमूर्धन्योपधत्वे नन्द्रा इति निषेधाभावात् टकारद्वयसहितस्यैव द्वित्वे हलादिशेषेण द्वितीयटकारस्य निवृत्तौ टिट्टिषते इत्यनिष्टं प्रसज्येतेति भः । तोपध इत्यन्य इति । ष्टुत्वेन टोपधनिर्देश इति भावः । अस्मिन्पत्ते सनि अथैक्यादेकत्र पाठ उचित इति भावः । लज लजि । लज्यात् । लज्ज्यात् । 'लज प्रकाशने ' इति कथादौ । भर्त्सने चेति । चादु भर्जने । तुजि पालने । भाषार्थो - sयं युजादौ । गज गजि । 'गञ्जा तु मदिरागृहम्' । गज मदने च । मदनं मदः चित्तविकारः । वज व्रज । वादित्वादेत्वाभ्यासलोपो न । ववजतुः । वव्रजतुः । शाड्यन्ता इति । शाडृ श्लाघायामित्यन्ता इत्यर्थः । दोपधोऽयमिति । तथा च च ष्टुत्वशास्त्रस्यासिद्धत्वाद् 'न न्द्रा:-' इति द्वित्वनिषेधेन दकारं विहाय टिशब्दस्य द्वित्वे पश्चाद्दकारस्य ष्टुत्वे च च अट्टिषिते आट्टिटदित्यादि सिध्यति । टोपधत्वे तु अटिट्टिषते टिट्टदिति स्यादिति भावः । तोपध इति । श्रम्मिंस्तु पति१ ' भर्त्सने' इति तत्त्वबोधिनीकारः ।