________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ११६
क्षि २३६ क्षये । श्रकर्मकः । श्रन्तभोवितण्यर्थस्तु सकर्मकः । चयति । चित्ताय चित्त्रियतुः चितियुः । चित्तयिथ, चित्रेथ चिक्षियिव चिक्षियिम | देता । २२६८ अकृत्सार्वधातुकयोर्दीर्घः । ( ७-४-२५ ) अजन्तस्याङ्गस्य दीर्घः स्याद्यादौ प्रत्यये परे नतु कृत्सार्वधातुकयोः । श्रीयात् । श्रक्षैषीत् । क्षीज २३७ श्रव्यक्ले शब्दे । कूजिना सहायं पठितुं युक्तः । चितीज । लज २३८ लजि २३६ भने 1 तश्च' इति निष्ठायामिरिनषेधश्च तत्फलानि । 'उपधायां च' इति दीर्घस्यानित्यत्वज्ञापनार्थमिह दीर्घ ऊकारः पठितः । तेन हुईतीत्यादौ न दीर्घ इत्याहुः । स्फूर्जतीति । लिटि पुस्फूर्ज, स्फूर्जीत् । क्षि क्षय इति । क्षयो नाशः | अन्तर्भावितण्यर्थ इति । नाशनार्थक इत्यर्थः । अजन्तेष्वेवास्य पाठो युक्तः । क्षयतीति । नश्यतीत्यर्थः, नाशयतीति वा । शपि गुणे श्रयादेशः । चिक्षायेति । खलि वृद्धिः श्रायादेशः । चिक्षियतुरिति । 'असंयोगात् -' इति कित्त्वान्न गुणः । इयङ् । चिक्षयिथ, चिथेति । पित्वेन कित्त्वाभावाद् गुणः । श्रजन्तत्वात्तासौ नित्यानिट्त्वाच्च भारद्वाजनियमात्थलि वेद् । इट्पक्षे श्रयादेशः । चिक्षियधुः चिक्षिय । चिज्ञाय, चिक्षय । वस्मसोस्तु क्रादिनियमाद् नित्यमिट्, तदाह चिक्षियिव चिक्षियिमेति । क्षेता | क्षेष्यति । क्षयतु | अक्षयत् । क्षयेत् । आशीर्लिङि विशेषमाह कृत्सार्वधातुकयोः । 'अङ्गस्य' इत्यधिकृतम् । 'अयङ् यि क्ङिति' इत्यतो यीति सप्तम्यन्तमनुवृत्तमङ्गाङ्क्षिप्त प्रत्यय विशेषणम्, तदादिविधिः । दीर्घश्रुत्या श्रच इत्युपस्थितमङ्गविशेषणम्, तदन्तविधिः, तदाह अजन्तस्येत्यादिना । 'अकृत्सार्वधातुकयोः' इति किम् ? प्रकृत्य । तुकं बाधित्वा परत्वाद्दीर्घो न । चिनुयात्, सार्वधातुकत्वान्न दीर्घः । क्षीजेति । ईदुपधः । कूजिनेति । 'कूज अव्यक्ते शब्दे' इत्यनुपदमेव पठितम् । तत्रैव 'कूज तीज अव्यक्त शब्दे' इति पठितुं युक्तमित्यर्थः, श्रर्थेभावादिकर्मणोः' इति विकल्पार्थश्च स्फूर्णं स्फूर्जितमनेनेत्यादि । 'उपधायां च' इति दीर्घस्यानित्यत्वज्ञापनार्थमिह दीर्घोपदेशः, तेन हुच्छेति मुर्च्छति इत्यपि भवतीति केचित् । क्षि क्षये । अजन्तेष्वस्य पाठो युक्तः । 'क्षि निवासगत्योः' इति तुदादौ । श्रकृत्सार्व | दीर्घग्रहणेन 'अचश्च' इति परिभाषोपस्थानादाह अजन्तेति । यादौ प्रत्यय इति । 'अयङ् यि क्ङिति' इत्यतो यीत्यनुवर्त्य अङ्गाक्षिप्तप्रत्ययस्तेन विशेष्यते, विशेषणेन तदादिविधिः, ' यस्मिन्विधि -' इति परिभाषोपस्थानादिति भावः । न त्विति । कृद्यकारे प्रकृत्य, प्रहृत्य, उच्चैःकृत्य । तुकं बाधित्वा परत्वाद् दीर्घः स्यात् । तुग्विधिस्तु निचित् सोमसुत् इत्यादौ चरितार्थः । ल्यपः पित्वमप्यनुदात्तार्थतया चरितार्थमित्याहुः । सार्वधातुकयकारे तु चिनुयात्, सुनुयात् । कूजिनेति । १ 'भर्जने' इति तत्त्वबोधिनीकारः ।