________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [११७ इति 'उपदेशेऽस्वतः' (सू २२६५ ) इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो निवर्तकः, 'अनन्तरस्य-' इति न्यायात् । विवयिथ, विवेथ, करोति न च स्तुद्रुश्रुवामपि थलि विकल्पः शङ्कय इति । कुत इत्यत श्राह अचस्तावदिति । ऋदन्तादेव परस्य थल इरिनषेधः, अनृदन्तात्परस्य तु थल इरिनषेधो नेति भारद्वाजीयं मतम् । अयं च इएिनषेधस्य निषेधः 'अचस्ताखत्-' इति 'उपदेशऽत्वतः' इति च सूत्रद्वय प्राप्तस्यैव इण्निषेधस्य पक्ष निवर्तकः । न तु क्रादिसूत्रप्राप्तस्य इप्रतिषेधस्यापीत्यर्थः । कुत इत्यत आह अनन्तरस्यति । 'अचस्तावत्-' इति 'उपदेशेऽत्वतः' इति 'ऋतो भारद्वाजस्य' इति च सूत्रक्रमः । 'कृसभृवृ-' इति सूत्रं तु ततः प्राग्बहुव्यवहितमिति भावः । किंच 'नेड् वशि कृति' इत्यादिप्रतिषेधकाण्डोत्तरम् ‘आर्धधातुकस्येड्वलादेः' इति विधिकाण्डारम्भसामर्थ्यादपि स्तुद्रस्रश्रवामिरिनधेषो भारद्वाजनियमं बाधत इति 'नेड् वशि कृति' इत्यत्र 'वस्वेकाजाद्वसाम्' इत्यत्र च भाष्ये स्पष्टम् । ततश्च प्रकृते अजेस्थलि वीभावे तस्य अजन्तत्वात्तासौ नित्यानिट्त्वाच्च इड्विकल्प इति सिद्धम् , तदाह विवयिथ विवेथेति । सिबादेअन्यथा क्रादिनियमात्तत्र इडागमो दुर्वारः स्यादित्याशङ्कयाह न चेति । योगद्वयेति। कादियोगप्रापितस्य तु न निवर्तक इति भावः । कुत इत्याकाङ्क्षायामाह अनन्तरस्येति । न चैवम् 'उपदेशेऽत्वतः' इत्यस्यैव बाधः स्यादिति वाच्यम् , अत्वत्सु धातुषु ऋदन्तत्वादर्शनेन यद्यत्वतः थलि इण्निषेधस्तर्हि ऋदन्तादेवेति नियन्तुमशक्यत्वात् । ननु तर्हि 'अचस्ताखत्-' इत्यस्यैव बाधोऽस्तु, तत्कथं योगद्वय. प्रापितस्येत्युक्तम् । अत्राहुः-उपदेशेऽचस्तावदित्येवं सूत्रे कृतेऽपि तावत्यलीत्यादिपदानामिवोपदेशपदस्याप्यनुवृत्तिसंभवे अत्वत इति सूत्रे उपदेशपदस्य, श्रच इति पूर्वसूत्रे तु ताखत्वलीत्यादेश्वाकरणादुभयोः समानयोगक्षेम इति ज्ञायते । तस्मादिष्टानुरोधाच योगद्वयमपि भारद्वाजनियमेन बाध्यते । यदि तु 'उपदेशेऽत्वतोऽचस्तावत्थल्यनिटो नित्यम्' इति एको योगः खोकियते, तदात्र नास्त्येव शङ्कालेशोऽपीति बोध्यमिति । अन्ये तु व्याचक्षते-'अचस्ताखत्-' इति सूत्रानन्तरमेव 'ऋतो भारद्वाजस्य' इति पठनीयम् , द्वयोरनन्तरमस्यारम्भादिह तास्वत्थल्यनिटो नित्यं तासीत्यनुवर्त्य योऽयं तासि नित्यानिटस्थलि इएिनषेधः स भारद्वाजमते ऋकारान्तस्यैवेति व्याख्यायते । अनेन सर्वेष्टसिद्धिः । यद्वा क्रादिसूत्रे स्तुप्रमृतीनां प्रहणमेवेड्दयस्यापि बाधकमस्तु, पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् । अनाश्रितविधानविशेषमिएमात्रमनारभ्याधीतेन प्रतिषेधेन यथा बाध्येतेत्येतदर्थो हि स प्रारम्भः । अमुमेवार्थ सिद्धवत्कृत्य ततश्चतुर्णा थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थमिति