________________
११६ ]
सिद्धान्तकौमुदी |
थलो नेड् भारद्वाजस्य मतेन । तेनान्यस्य स्यादेव । श्रयमत्र संग्रहः — श्रजन्तोऽकारवान्वा यस्तास्यनिट् थलि वेढयम् ।
तदाह
७७
ऋदन्त ईंडङ् नित्यानिट क्राथन्यो लिटि सेड् भवेत् ॥ न च स्तुद्रुश्रुवामपिथति विकल्पः शङ्कयः,' श्रचस्तास्वत् -' (सू२२६४ ) हृञ्धृणादौ ‘अचस्तास्वत्-' इत्येव सिद्धम् । श्रतो नियमार्थमिदमित्याह ऋदन्तादेव थलो नेडिति । अनृदन्तात्परस्य तु थल इट् स्यादेवेत्येवकारार्थः, अन्यस्य स्यादेवेति । ऋदन्तभिन्नात्परस्य थल इट् स्यादेवेत्यर्थः । तथा च ऋदन्तभिन्नाद्धातोः परस्य थलो नेनिवृत्तिरिति भारद्वाजमते पलतीति न वैयर्थ्यमिति भावः । तथा च श्रनृदन्ताद्धातोः परस्य थलो भारद्वाजमते इद् । मतान्तरे तु श्रच - स्तास्वदिति उपदेशेऽत्वत इति च तत्र नेडिति विकल्पः फलतीति भावः । तद्यथापपिथ, पपाथ । पेचिथ, पपक्थ । श्रयमत्रेति । 'कृभृवस्तु दुस्रुवो लिटि' इति 'चस्तास्वत्थल्यनिटो नित्यम्' इति 'उपदेशेऽत्वत:' इति 'ऋतो भारद्वाजस्य' इति च सूत्रचतुष्टयस्य विषयाणां संग्रहो वक्ष्यत इत्यर्थः । अजन्त इति । यो धातुः ऋदन्तभिन्नाजन्तो हस्वाकारवान् वा तासौ नित्यानिट् सोऽयं थलि विकल्पितेट्क इति पूर्वार्धस्यार्थः । अत्र 'ईदृग्' इत्यस्य तासौ नित्यानिडित्यर्थः । य ऋदन्तस्तासौ नित्यानिट् स थलि नित्यानिडित्यर्थः । 'अचस्तास्वत् -' इति पाणिनिमते 'ऋतो भारद्वाजस्य' इति भारद्वाजमतेऽपि तस्य निकत्वादिति भावः । काद्यन्य इति । क्राद्यष्टभ्योऽन्यो धातुः लिटि नित्यं सेडित्यर्थः । काद्यषुभ्य एव परस्य लिटि ने डिि 'कृसृमृवृ -' इति सूत्रेण नियमितत्वादिति भावः । नन्वत्र काद्यन्य इत्युक्तया क्रादीनाम् अष्टानां लिटि नित्यानिट्कत्वमवगतम् । तदनुपपन्नम्, स्तुद्रस्रश्रवाम् ऋदन्तभिन्नत्वेन तेभ्यस्थलि अचस्तास्वदिति निषेधस्य भारद्वाजमते अप्रवृत्त्या इड्विकल्पस्य दुर्वारत्वात् । नचैवं सति ‘कृसृमृवृ-' इति सूत्रे स्तुद्रस्रश्रग्रहणमनर्थकमिति वाच्यम् । तुष्टुव तुष्टुमेत्यादौ वमादिषु क्रादिनियमप्राप्तस्य इटो निवृत्त्या चरितार्थत्वादित्याशङ्कय निरामिटा भाव्यम् । तस्मान्नियमोऽयमित्याह ऋदन्तादेवेति । जहर्थ । दधर्थ । अन्यस्य स्यादेवेति । एवं च भारद्वाजमते स्यादन्यमते न स्यादिति विकल्पः फलितः । पपिथ, पपाथ । पेचिय, पपक्थ । इयजिथ, इयष्ठ । कारवानिति । हस्वाकारवानित्यर्थः । ईदृगिति । यस्तास्यनिट् स ऋदन्तः थलि नित्यानिड् भवतीत्यर्थः । ननुस्तुमुनुवामपि थलि भारद्वाजनियमादिट् स्यात् । न चैवं कादिसूत्रे तेषां पठनं, निरर्थकं स्यादिति वाच्यम्, तत्पठनस्य वमादिष्वियानिवृत्त्यर्थतया सफलत्वात् ।
७७७
[ भ्वादि
220