________________
प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [११५ (७-२-६२) उपदेशेऽकारवतस्तासौ नित्यानिटः परस्य थल इएन स्यात् । २२६६ ऋतो भारद्वाजस्य । (७-२-६३) तासौ नित्यानिट ऋदन्तादेव भवति । 'अजन्तात्' किम् ? बिभेदिथ । 'उपदेश' इति किम् ? हृञ् जहर्थ । इह गुणे रपरत्वे अजन्तत्वाभावादिरिनषेधो न स्यादित्युपदेशग्रहणम् । नित्यग्रहणं किम् स्व गतौ, सस्वरिथ । स्वरतिसूतीति तासौ विकल्पितेटकत्वान्न निषेधः । 'तासौ' किम् ? लूत्वा लुलविथ । 'थलः' किम् ? पपिव पपिम । इह तासीत्यनुवृत्त्यैव सिद्धेः 'तास्वत्' इति नातीवोपयुज्यत इति केचित् । वस्तुतस्तु यस्तासौ विद्यते तस्मादेव परस्य थल इशिनषेधार्थ तास्वदित्यावश्यकम् । तेन 'लिव्यन्यतरस्याम्' इत्यदो घस्लभावे जघसिथेत्यत्र न निषेधः, घसस्तासावभावादिति 'श्रद भक्षणे' इति धातौ मूल एव वक्ष्यते । यस्तासावस्ति अनिट् चेति भाष्यम् । एवं वेमो वयादेशेऽपि । उपदेशेऽत्वतः। अत्वत इति च्छेदः । अत्-ह्रस्वाकारः, सः अस्य अस्तीति श्रेत्वान् 'तसौ मत्वर्थे' इति भत्वान्न जश्त्वम् । अच इति वर्ज पूर्वसूत्रम्, तत्र यदनुवृत्तं तदप्यनुवर्तते, तदाह उपदेशे अकारवत इति । शक्ल शशक्थ, पच पपक्थेत्युदाहरणम् । अत्र कादिनियमप्राप्त इरान भवति । 'उपदेशे किम् ? 'कृष विले. खने', चकर्षिथ । 'अत्वतः' इति किम् ? बिभेदिथ । 'तपरः' किम् ? रराधिय । 'तासौ किम् ? जग्रहिथ । जिघृक्षतीत्यत्र 'सनि ग्रहगुहोश्च' इति सनि नित्यमनिट् , न तु तासौ। नित्येति किम् ? अञ्ज, आनजिथ । ऊदित्त्वात्तासौ वेडिति भाष्यम् । चक्रमिथेत्यप्युदाहरणम् , 'स्नुक्रमो:-' इति नियमेनात्मनेपदे तासावनिकत्वेऽपि परस्मैपदे सेटकत्वात् । ऋतो भारद्वाजस्य । तासौ नित्यमनिट इति, थलीति, नेति, इडिति चानुवर्तते । भारद्वाजस्य मते ऋदन्ताद्धातोः परस्य थलो नेडिति फलितम् । तल्लाभार्थ तत् । तेन उवयिथ, जघसियेत्यत्र न निषेध इत्याहुः । उपदेशेऽत्वतः। पपक्थ । इयष्ठ । उपदेशे किम् , कर्टा, चकर्षिय । अकारवदिति किम् , भेत्ता, विभेदिथ । तपरकरणं किम् , राधा, रराधिय । तासौ किम्, जिघृक्षति, जाहिथ । 'सनि ग्रहगुहोश्च' इति सनि नित्यमनिट । कान्तः । चक्रमिथ । उदित्त्वेन क्वायां वेटकत्वाद् 'यस्य विभाषा' इति निष्ठायां नेट । नित्यानिटः किम् , अङ्का, अजिता,
आनजिथ । किं च नित्यग्रहणानुवर्तनाचक्रमिथेत्यपि सिध्यति । नहि क्रमिस्तासौ नित्यानिट, 'स्नुक्रमोरनात्मनेपदनिमित्ते' इति परस्मैपदे सेटकत्वात् । ऋतो भारद्वाजस्य । तपरकरणात्कृगृप्रभृतिषु दीर्घान्तेषु नायं निषेधः प्रवर्तते । ह्रस्वान्तेषु हृञ्धृआदिषु 'अचस्तास्वत्-' इत्येव सिद्धम् , वृञ्बृद्धौ तु यद्यपि सेटौ तथापि वृङः थलेव नास्ति श्रात्मनेपदित्वात् , वृअस्तु छन्दसिं 'ववर्थ' इति निपातनाद्ववरिथेति भाषाया
१ एतद् वाक्यं क्वचिन्नास्ति । ।