________________
११४ ]
सिद्धान्तकौमुदी ।
[ भ्वादि
२२६४ श्रचस्तास्वत्थल्यनिटो नित्यम् । ( ७-२-६१ ) उपदेशेऽजन्तो यो धातुः तास नित्यानि ततः परस्य थल इएन स्यात् । २२६५ उपदेशेऽत्वतः । तदुपयोगित्वेन सूत्रद्वयमुपन्यस्यति चस्तास्वत् । अधातोस्थलोऽभावाद्धातोरिति लभ्यते । च इति तद्विशेषणम् । तदन्तविधिः । 'उपदेशेऽत्वत:' इत्युत्तरसूत्रादुपदेश इत्यपकृष्यत इति 'ऋतो भारद्वाजस्य' इति सूत्रभाष्ये स्थितम् । उपदेशे श्रजन्तादित्यन्वयः । अनि इति बहुव्रीहेः पञ्चमी । नित्यमिविहीनादित्यन्वयः । 'तासि च क्लृपः' इत्यतस्तासीत्यनुवर्तते । तासौ नित्यमनिट इत्यन्वयः । थलीति षष्ठयर्थे सप्तमी । 'गमेरिट् परस्मैपदेषु' इत्यत इडिति, 'न वृद्भयश्चतुर्भ्यः' इत्यतो नेति चानुवर्तते । तास्वदिति सप्तम्यन्ताद् वतिः, तदाह उपदेशे योऽजन्त इत्यादि इन स्यादित्यन्तम् । तास्वदिति शेषः । यथा तासि नेट् तथा थल्यपि नेड् इत्यर्थः । चिचेथ जुहोत्यायुदाहरणम् । अत्र क्रादिनियमप्राप्त इरान
>
,
श्रयनिषेधस्य नियमः प्रत्ययाश्रयस्य तु न संवभति । वृग्रहणस्य ववर्थेत्यत्राप्राप्तनिषेधप्रापकत्वात्। न ह्यत्र प्रत्ययाश्रयो निषेधः प्राप्नोति थलो कित्त्वात् । नापि प्रकृत्याश्रयः, वृञ उदात्तत्वात् । न चैवमपि वृङो नियमार्थत्वमस्त्विति वाच्यम्, तस्य विशिष्याग्रहणात् । यद्यपि विशिष्य ग्रहणं वृञोऽपि नास्ति, तथाप्यप्राप्तनिषेधप्राप्तिफलकत्वाद् बृइति वृञ एव प्रहणं भवेत्, विधिनियमयोर्विधिरेव ज्यायानिति न्यायात् । एवं च बभूविवेत्यादौ 'श्रूयुकः किति' इतीरिनषेधो दुर्वार इति चेत् । अत्राहुः - ' बभूथाततन्थजगृभ्मववर्थे-' इति सूत्रेण छन्दसि ववर्थेति निपातनाद्भाषायां वृञस्थल इटः स्वीकर्तव्यतया वृग्रहणस्य थल्विषयत्वायोगाद्वमादीनां च कित्त्वेन नियमस्य सुस्थत्वादिति । अचस्तास्वत् । उत्तरसूत्रादुपदेश इत्यपकृष्यते तच्चाजन्तस्य विशेषणमित्याह उपदेशेऽजन्त इति । धातुरित्याक्षेपाल्लभ्यते । न ह्यधातोस्थल् संभवति । नित्यग्रहणमनिटो विशेषणम् । क्व नित्यमनिडित्यपेक्षायां संनिधानात्तासावेवेति विज्ञायते । 'तासि च क्लृपः' इति सन्निहितं वाऽनुवर्तते । 'न वृद्भ्यः -' इत्यस्मान्नेत्यनुवर्तते, तदाह तासौ नित्यानिद्, ततः परस्येति । तासाविव तास्वदिति सप्तम्यन्ताद्वतिः । यथा तासौ न भवति एवं थल्यपीत्यर्थः । च इति किम्, बिभेदिथ । रुरोदिथ । उपदेशे इति किम्, जहर्थ । इह परत्वान्नित्यत्वाच्च गुणे रपरत्वे च कृते श्रजन्तत्वाभावादेतस्याप्रवृत्ताविद् प्रसज्येतेत्युपदेशे इत्युक्तम् । थलीति किम्, पपिव पपिम । नित्यमनिटः किम्, सस्वरिथ, सस्वर्थ । नायं तासौ नित्यमनिट् । ‘स्वरतिसूति-' इति विकल्पितेट्त्वात् । इह तासीति नेति चानुवृत्त्यैवेष्टसिद्धेस्तास्वदित्येतन्नातीवोपयुज्यत इति केचित् । अन्ये तु — यस्य तासौ विद्यमानत्वं तस्मादेव परस्य थल इरिनषेध इत्ये