________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [११३ स्यात् । क्रादीनां चतुर्णा ग्रहणं नियमार्थम् । प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिएिनषेधः स लिटि चेहि क्रादिभ्य एव नान्येभ्य इति । ततश्चता थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थम् । किमर्थमिदं सूत्रमित्यत आह क्रादीनामिति । कृ स भृ वृ इत्येतेषामित्यर्थः । नियमस्वरूपमाह प्रकृत्याश्रय इत्यादि । कृ सृ भृ इत्येषां त्रयाणम् अनुदात्तो. पदेशान्तर्भूतानाम् ‘एकाच उपदेशे-' इति यः प्रकृत्याश्रयो निषेधः, यश्च वृधातोः 'श्रयुकः किति' इति प्रत्ययाश्रयो निषेधः, तदुभयमपि यदि लिटि स्यात् तर्हि कृमृभृवृ इत्येभ्य एव परस्य लिटो भवति, न तु तदन्येभ्यः परस्येत्यर्थः । तेन बिभिदिव बिभिदिमेत्यादौ 'एकाच उपदेश-' इति निषेधः, बभूविव बभूविमेत्यादौ 'श्रयुकः किति' इति निषेधश्च न भवति । अथ स्तुद्रुसुश्रुवां प्रहणस्य प्रयोजनमाह तत इति। अन्येषामिति शेषः । चतुर्णामिति । प्रहणमिति शेषः। ततः तेभ्यः कृसृभृत्र इत्येभ्यः अन्येषां स्तुस्रुश्रुवां ग्रहणं थलि तुष्टोथ दुदोथ सुस्रोथ शुश्रोथ इत्यत्र 'ऋतो भारद्वाजस्य' इति वक्ष्यमाणेन ऋदन्तस्यैव थलि नेट , अन्यस्य तु स्यादेवेति नियमेन प्राप्तस्य इटो निषेधार्थम् । तथा तुष्टुव तुष्टुमत्यादौ 'कृसृभृवृ-' इत्युक्तेन क्रादिभ्य एव परस्य लिट इरिनषेधः, अन्येभ्यस्तु परस्य इट् स्यादेवेति नियमेन प्राप्तस्य इटो निषेधार्थ चेत्यर्थः । तदेवम् अजेः थलि वीभावे 'एकाचः-' इति निषेधाभावादिडागमो निर्बाध इति स्थितम् । अथ तस्य थलि इडागमस्य भारद्वाजनियमाद्विकल्पं वक्ष्यन् इति प्रत्ययाश्रये निषेधे प्राप्ते नियमोऽयमित्याह क्रादीनां चतुर्णामिति । इह स्तुवादीनां चतुर्णा ग्रहणस्य भारद्वाजनियमप्रापितनिषेधोऽपि प्रयोजनमिति बोधयितुमष्टानां ग्रहणमिति नोक्तम् । इरिनषेध इति । 'नेड्वशि-' इति प्रक्रमानापादितस्यैवाभावस्य नियमो न तु विभाषाबललभ्यस्यापि । 'अनन्तरस्य-' इति न्यायादपि संनिहितस्यैव नियम उचितः । तेन सिषेधिथ, सिषेद्ध । सिषिधिव, सिषिध्व इत्याशुभयं भवति । नान्येभ्य इति । तेन पचिव, बभूविवेत्यादि सिद्धम् । न चैवं क्रादिनियमेनैव 'नेड् वशि कृति' इति निषेधस्याप्यप्रवृत्तौ सेदिवान् जक्षिवानित्यादि सिध्य
सेवेति 'वस्वकाजाद्ध साम्' इतीविधानं किमर्थमिति शङ्कयम् , तस्य नियमार्थत्वेन व्याख्यास्यमानत्वात् । अन्यथा बभूवानित्यत्रापीडागमः स्यादिति । नन्विह कादिभ्य. श्चेदिण् न स्यात्तर्हि लिव्येवेति विपरीतनियमः किं न स्यात् । तथा च कर्ता अकार्षी. दित्यादाविडागमः स्यादिति चेत् । मैवम् , 'कृते प्रन्थे' 'तमधीष्टो भृतः-' 'परिवृतो रथः' इत्यादिनिर्देशविरोधापत्तेः । वमादिष्विति । श्रादिशब्देन सेवेवहिमहीनां प्रहणम् । तुष्टुवे, तुष्टुध्वे, तुष्टुवहे, तुष्टुमहे इत्यादि । स्यादेतत्-अस्तु प्रकृत्या