________________
११२ ]
सिद्धान्तकौमुदी ।
[ भ्वादि
विभ्यतुः विव्युः । अत्र वकारस्य हल्परस्वाद् 'उपधायां च' ( सू २२६५ ) इति दीर्घे प्राप्ते 'अचः परस्मिन् -' ( सू ५० ) इति स्थानिवद्भावे नाच्परकत्वम् । न च 'न पदान्त - ' ( सू २१ ) इति निषेधः । 'स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत्' इत्युक्तेः । थलि 'एकाचः -' ( सू २२४६ ) इतीनिषेधे प्राप्ते | २२६३ कृसृभृवृस्तुद्रुस्रुभ्रुवो लिटि । ( ७-२-१३ ) एम्यो जिट इरान विवायेति । लिटो खलि विवक्षिते वीभावे सति गलि द्वित्वे अभ्यासहस्वे 'चो ञ्णिति' इति वृद्धौ श्रायादेश इति भावः । विव्यतुरिति । वीभावे सति अतुसि द्वित्वे अभ्यासहृस्वे ‘असंयोगात् -' इति कित्त्वाद् गुणाभावे इयडवादे 'एरने काचः -' इति यणि रूपम् । एवम् उसि विव्युरिति रूपम् । ननु विव्यतुः विव्युरित्यत्र द्वितीयवकारस्य यकारात्मक हल्परकत्वाद 'उपधायां च' इति इकाररस्य दीर्घः स्यादित्याशङ्कय ईकारस्थानिकस्य यकारस्य 'अचः परस्मिन् -' इति स्थानिवत्त्वेन द्वितीयवकारस्य हल्परकत्वाभावात् तस्मिन्वकारे परे इकारस्य न दीर्घ इति परिहरति अत्र वकारस्येत्यादि परकत्वमित्यन्तम् । ननु दीर्घविधौ 'न पदान्त--' इति निषेधात्कथमिह यकारस्य स्थानिवत्त्वमित्याशङ्कय निराकरोति न च न पदान्तेति निषेध इति । शङ्कय इति शेषः । कुत इत्यत आह स्वरदीर्घेति । इत्युक्तेरिति । वार्तिककृतेति शेषः । थलि एकाच इति । श्रजधातोरनुदानोपदेशानन्तर्भावेऽपि वी इति तदादेशो ऽनुदात्तः श्रजन्तेषु ऊदृदन्तादिचतुर्दशभिन्नधातूनामनुदात्तत्वाभ्युपगमादिति भावः । कृसृ । कृ सृ भृ त्रृ स्तु द्रु स्रु श्रु इत्यष्टानां समाहारद्वन्द्वात्पञ्चमी । लिटीति षष्ठ्यर्थे सप्तमी । 'नेडवशिकृति' इत्यतो नेति इडिति चानुवर्तते । तदाह एभ्य इति । ननु 'एकाच उपदेशेऽनुदात्तात्' इति 'श्रूयुकः किति' इति च सिद्धे आर्धधातुकविषयत्वाभावान्नार्धधातुकाभिव्यक्तिरिति वीभावस्यैवाः सक्तेः । एतच्च 'न लुमता-' इति सूत्रे कैटे स्पष्टम् । अघञोः किम्, समाजः । 'समुदोरजः पशुषु' इत्यप् । समजः । उदजः । विव्यतुरिति । 'एरने काचः -' इति यण् । लोपाजादेश एवेति । एतच्च 'न पदान्त-' इति सूत्र एवास्माभिरुपदितम् । एकाच इतीति । जेरुदात्तत्वेऽपि वीभावोऽनुदात्तः, उद्वृदन्तादिभिन्ना एकाचोऽजन्ताः, सर्वेऽप्यनुदात्ता इत्यभ्युपगमात् । कृसृभृ । 'डुकृञ् करणे' । 'कुज् सिंहायाम् । इह निरनुबन्धग्रहणादेकानुबन्धद्वयनुबन्धयोरुभयोर्ग्रहणम् । एवमग्रेऽपि 'मृज् भरणे', 'डुभृञ् धारणपोषणयोः' इत्युभयोर्ग्रहणम् । 'सृ गतौ'। 'वृङ् सनक्कौ'। 'वृञ् वरणे' । इह निरनुबन्धकग्रहणाद्भिन्नानुबन्धयोरप्युभयोर्ग्रहणम् । कृ सृ भृ एषामनुदात्तत्वाद् 'एकाच उपदेश -' इति प्रकृत्याश्रये निषेधे प्राप्ते शृङ्ञोस्तूदासत्वात् 'श्रूयुकः किति'