________________
1
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १११ २१६ विवासे । विवासः समाप्तिः । प्रायेणायं विपूर्वः । व्युच्छति । घृज २१७ जि २१८ धज २१६ धजि २२० ध्वज २२१ ध्वजि २२२ गतौ । धर्जति । घृञ्जति । धजति । ध्रञ्जति । ध्वजति । ध्वञ्जति । कूज २२३ श्रव्यक्ते शब्दे । चुकूज | अर्ज २२४ पर्ज २२५ श्रर्जने । श्रर्जति । श्रानर्ज । सर्जति । ससर्ज । गर्ज २२६ शब्दे । गर्जति । तर्ज २२७ भर्त्सने । तर्जति । ततर्ज | कर्ज २२८ व्यथने । चकर्ज । खर्ज २२६ पूजने च । चखर्ज । श्रज २३० गतितेपणयोः । श्रजति । २२६२ अजेर्व्य घञपोः । ( २-४ - ५६ ) अजेव इत्ययमादेशः स्यादार्धधातुकविषये घञमपं च वर्जयित्वा । ' वलादावार्धधातुके वेष्यते' विवाय गुरुत्वाद् 'इजादेश्च-' इत्यामिति भावः । धृजेति । श्रद्यौ ऋदुपधौ । इतरे चत्वारः श्रदुपधाः। द्वितीयचतुर्थषष्ठा इदितः । धर्जतीति । शपि लघूपधगुणो रपरत्वम् । दधर्ज दधृजतुः । धृज्यात् । अधर्जीत् । धृअतीति । इदित्त्वान्नुम् । दवृञ्ज । इदित्त्वान्नलोपो न धृज्यात् । अवृञ्जीत् । धजतीति । गलि दध्राज । दध्रजतुः । अध्राजीत्, अध्रजीत् । ध्रञ्जतीति । अदुपधोऽयम् । दध्रञ्ज । इदित्त्वान्नलोपो न, दधजतुः । ध्वजतीति । दध्वाज । ध्वञ्जतीति । दध्वञ्ज । कूज अव्यक्त इति । स्पष्टम्। सर्जतीत्यत्र षोपदेशत्वात् सत्वम् । श्रज गतीति । लटि अजतीत्यादि सिद्धवत्कृत्य लिटि विशेषमाह जेर्व्यघञयोः । वी इति दीर्घान्तं लुप्तप्रथमाकम् । 'आर्धधातुके' इत्यधिकृतम् । विषयसप्तम्येषा, नतु परसप्तमी । व्याख्यानात् । तदाह आर्धधातुकविषय इत्यादि । श्रजेरिति इका निर्देशः, अजधातोरित्यर्थः । श्रार्धधातुक इति परसप्तम्याश्रयेण तु वेवीयत इति न स्यात्, वीभावात्प्राग् अजादित्वाद् य संभवात् । विषयसप्तम्याश्रयणे तु यङि विवक्षिते वीभावे सति हलादित्वाद्यङ् निर्बाधः । 'अघनपो:' किम् ? घञि समाजः । 'समुदोरजः पशुषु' इत्यपि समजः । अत्र अघञोरिति न वक्तव्यम्, 'वा लिटि' इत्यतो वेत्यनुवर्तते । व्यवस्थितविभाषेयम् । घञि अपि च न भवति । ल्युटि वलादावार्धधातुके च विकल्पः । अन्यत्र तु श्रार्धधातुके नित्यमिति भाष्यकैयटयोः स्थितम्, तदाह वलादावार्धधातुके वेष्यत इति । उक्तव्यवस्थितविभाषोपलक्षणमिदम् । युच्छेति चकारछकारावुच्चार्येतां किमनेन तुग्विधिनेति शङ्कयम्, बहुषु धातुरूपेषु चकारच्छकारयोरुच्चारणे गौरवात्, 'छे च' इत्यस्य शिवच्छायेत्यादावावश्यकत्वाच्च । जेर्व्य । वी इति च्छेदः । तेन संवीतः संवीतिरित्यादि सिध्यति । आर्धधातुक1 विषय इति । तेन वीभावोत्तरं यङि वेवीयते इत्यादि सिध्यति, परसप्तम्यां तु हला• दित्वाभावाद्यं न स्यादिति भावः । यङ्लुक तु अस्मान्न भवति । लुका यङोऽपहारे १ संयोगात् परत्वात् कित्त्वाभावादित्युचितम् ।
1
।