________________
. सिद्धान्तकौमुदी। [भ्वादिअर्च २०४ पूजायाम् । अानर्च । म्लेच्छ २०५ अन्यक्रे शब्दे । अस्फुटेऽपशब्दे चेत्यर्थः । म्लेच्छति । मिम्लेच्छ । लछ २०६ लाछि २०७ लक्षणे । ललच्छ । बलान्छ । वाछि २०८ इच्छायाम् । वान्छति । प्राछि २०६ अायामे । आम्छति । 'प्रत प्रादेः' (सू २२४८ ) इत्यत्र तपरकरणं स्वाभाविकहस्वपरिग्रहार्थम् , तेन दीर्घाभावान्न नुट् , भान्छ । तपरकरणं मुखसुखार्थमिति मते तु नुट् , अानान्छ । ह्रीच्छ २१० लजायाम् । जिहीच्छ । हु. २११ कौटिल्ये । कौटिल्यमपसरणम् इति मैत्रेयः । 'उपधायां च' (सू २२६५) इति दीर्घः । हूर्च्छति । मुर्छा २१२ मोहसमुच्छ्राययोः । मूर्छति । स्फुर्वा २१३ विस्तृतौ । स्फूर्छति । युच्छ २१४ प्रमादे । युच्छति । उछि २१५ उछे । 'उन्छः कणश श्रादानं कणिशाद्यर्जनं शिलम् ।' इति यादवः । उन्छति । उब्छांचकार । उच्छी त्त्वादाशीलिडि नलोपो नेत्याह गुज्यादिति । अर्चेति । लिटि 'तस्मान्नुदिहलः' इति नुटं मत्वाह अानचेति । म्लेच्छेत्यादि स्पष्टम् । तुकि लच्छतीति रूपम् । ललच्छ ललच्छतुः । प्राछीति । लिटि णलि द्वित्वे हलादिशेषे अभ्यासहस्वे अ श्राञ्छ् अ इति स्थिते 'अत आदेः' इति दीर्घ 'तस्मान्नुविहलः' इति च नुटमाश
याह अत आदेरिति । तत्र हि दीर्घस्याकारस्य दीर्घविधौ प्रयोजनाभावादेव ह्रस्वाकारस्य दीर्घ इति सिद्धौ अत इति तपरकरणं स्वाभाविकस्यैव ह्रस्वाकारस्य परिप्रहार्थमित्यर्थः । ततः किमित्यत आह तेनेति । 'अत प्रादेः' इति दीर्घविधौ स्वाभाविकह्रस्वाकारस्यैव ग्रहणेन 'श्रत आदेः' इति दीर्घस्याभावान्न नुडित्यर्थः । आञ्छति । द्वित्वे हलादिशेषे अभ्यासह्रस्वे सवर्णदीर्घ इति भावः । मुखसुखार्थमिति । तथा च ह्रस्वस्थानिकदीर्घाकारादपि परस्य नुड् भवत्येवेति भावः । ह्रीच्छ लज्जायामित्यादि स्पष्टम् । युच्छ प्रमाद इति । यकारादिरुदुपधोऽयम् । युच्छतीति । अन्तरङ्गत्वात् 'छे च' इति तुकि लघूपधत्वाभावाद् न गुणः । युयुच्छ । युयुच्छतुः। उछि उञ्छ इति । अयमप्युदुपधः। उञ्छतीति । इदित्त्वान्नुमि अलघूपधत्वान्न गुणः। उञ्छाञ्चकारेति । नुमि कृते 'संयोगे गुरु' इत्युकारस्य अश्वताम् । अश्वन् । अश्वयीत् । 'विभाषा धेश्व्योः ' इति चङि अशिश्वियत् । 'अर्च पूजायाम्' । अयं पूजादौ स्वरितेत् । इह पाठस्तु कर्तृगेऽपि फलं परस्मैपदार्थः । दीर्घाभावादिति । स्वाभाविकह्रस्वस्थानिकदीर्घाभावादित्यर्थः । मुखसुखार्थमिति । कृतह्रस्वस्थानिकदीर्घाकारात्परस्यापि नुड् भवत्येवेति भावः । 'युच्छ प्रमादे'। युच्छतीति । अन्तरङ्गत्वात् 'छे च' इति तुकि लघूपधत्वाभावान्न गुणः । न च वार्णादाङ्ग बलीय इति वाच्यम् , अाङ्गवार्णयोर्युगपत्प्रवृत्तावेव प्राङ्गस्य बलीयस्त्वात् । न च