________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ १०६
1
अपनयने । लुच्यात् । श्रचु १८८ गतिपूजनयोः । श्रच्यात् । गतौ नलोपः । पूजायां तु यात् । वन्चु १८६ चन्चु १६० तञ्चु १६१ वञ्चु १६२ भ्रुम्वु १६३ ग्लुम्वु १६४ म्रुचु १६५ म्लुचु ११६ गत्यर्थाः । वच्यात् । चच्यात् । तच्यात् । त्वच्यात् । श्रस्रुञ्चीत् । अम्लुचीत् । २२६१ जृस्तन्भुम्रुचुम्लुचुब्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च । ( ३-१-५८ ) एभ्यश्ब्लेरङ् वा स्यात् । अनुचुत्, अम्रोचीत् । श्रम्लुचत्, अम्लोचीत् । म्रुचु ११७ ग्लुचु १६८ कुजु १६६ खुजु २०० स्तेयकरणे । जुग्रोच । श्रब्रुचत्, अग्रोचीत् । जुग्लोच । अग्लुचत्, श्रग्लोचीत् । श्रकोजीत् । श्रखोजीत् । ग्लुचु २०१ षस्ज २०२ गतौ । लुङि अऴ् वा । अग्लुचत्, अग्लुचीत् । सस्य श्चुत्वेन शः, तस्य जश्वेन जः, सज्जति । श्रयमात्मनेपद्यपि, सजते । गुजि २०३ श्रव्यक्ते शब्दे । गुञ्जति । गुञ्ज्यात् । नलोपः, तदाद लुच्यादिति । एवमञ्चुधातोरपि द्रष्टव्यम् । पूजायां त्विति । 'नाचेः पूजायाम्' इति निषेधादिति भावः । वञ्चु चञ्चु तञ्चु इति । आद्याः षड् नोपधाः। अनुस्वारपरसवर्णाभ्यां अकारनिर्देशः । तथा च तेषामाशीर्लिङि अनिदितामिति नलोपः, तदाह वच्यादिति । लुङि अम्रवीत् अम्लुचीदिति नोपधयो रूपम् । सिज्लोपः । जूस्तन्भु । 'च्लेः सिच्' इत्यतः च्लेरिति, 'अस्यति वह्निख्यातिभ्यः-' इत्यतः श्रङिति, 'इरितो वा' इत्यतः वेति चानुवर्तते । तदाह एभ्यश्च्लेरङ् वेति । 'नॄष् वयोहानौ', स्तन्भुः सौत्रो धातुः, 'म्रुचुम्लुच् गत्ययौ', 'प्रचु ग्लुचु स्तेयकरणे' 'ग्लुञ्चु गतौ' इत्येतेभ्य इत्यर्थः । म्रचदिति । च्लेरङि सति ङित्त्वान्न लघूपधगुणः । अम्रोचीदिति । श्रभावे 'इट' ईटि' इति सिज्लोपः । श्रुचु ग्लुचु इति । 'स्तन्भु -' इति श्रड् वेत्याह अब्रुचत्, अग्रोचीदिति । श्रायस्य रूपे । अथ द्वितीयस्य श्रविकल्पमुदाहरति अग्लुचत्, अग्लोचीदिति । अङि सति ङित्त्वान्न लघूपधगुणः । श्रङभावे सिज्लोपः । ग्लुचु षस्जेति । श्राद्यो नोपधः, द्वितीयस्तु षोपदेशः, अच्परकसादित्वात् । तत्र आयस्य लुङि विशेषमाह श्रङ् वेति । 'स्तन्भु -' इत्यनेनेति शेषः । ग्लुचुग्लुञ्चनोः पृथग्ग्रहणसामर्थ्याद् नलोपो नेति वृत्तिकृत् । अग्लुञ्चत् । सस्येति । धात्वादेः सत्वे सस्ज् इति स्थिते, द्वितीयस्य सकारस्य श्चुत्वेन शकार इत्यर्थः । तस्येति । शकारस्य 'झलां जश् झशि' इति जकार इत्यर्थः । गुजीति । इदियान्ताः परस्मैपदिनः । पूजायां त्विति । 'नाचेः पूजायाम्' इति निषेधादिति भावः । जृस्तम्भु । स्तन्भुः सौत्रः । अजरत्, अजारीत् । अस्तभत्, अस्तम्भीत् । अश्वत् ।