________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१०७ दर्शने । लोचते । लुलोचे । शच १६५ व्यायां वाचि । शेचे । श्वच १६६ श्वचि १६७ गतौ । श्वचते । श्वञ्चते । कच १६८ बन्धने । कचते । कचि १६६ काचि १७० दीप्तिबन्धनयोः । चकच्चे । चकाम्चे। मच १७१ मुचि १७२ कल्कने । कल्कनं दम्भः शाठयं च । कथनम् इत्यन्ये । मेचे । मुमचे। मचि १७३ धारणोच्छ्रायपूजनेषु । ममञ्च । पचि १७४ व्यकीकरणे। पञ्चते। ष्टुच १७५ प्रसादे। स्तोचते। तुष्टुचे । ऋज १७६ गतिस्थानार्जनोपार्जनेषु । अर्जते । नुविधौ ऋकारकदशौ रफो हल्वेन गृह्यते । वेन द्विहल्त्वान्नुट् । आनृजे।ऋजि १७७ भृजी १७८ भर्जने । ऋञ्जते । 'उपसर्गादति-' (सू ७४) इति वृद्धिः । प्राञ्जते । ऋषिके । आञ्जिष्ट । भर्जते । बभृजे । अभर्जिष्ट । एज १७६ श्रेज़ षोपदेशोऽयम् । स्वरितेत्सु 'षचे समवाये' इति वक्ष्यते । सेच इति । सत्वस्थ लिरिनमित्तत्वाभावादादेशादित्वेऽपि एत्वाभ्यासलोपौ। दम्भः शाठ्यं चेति । परविसम्भार्थ धर्माद्याचरणं दम्भः कापट्यापरपर्यायः । 'कपटोऽस्त्री व्याजदम्भोपधयः' इत्यमरः । शाठ्यं कुटिलीभावः । 'निकृतस्त्वनृजुः शठः' इत्यमरः। पचि व्यक्तीकरण इति । 'पचि विस्तारे' इति चुरादौ वक्ष्यते । ष्टुच प्रसाद इति । ष्टुत्वसंपन्नः टकारः । ततश्च दन्त्यपरकसादित्वात् षोपदेशोऽयम् । स्तोचत इति । षस्य सत्वे सति ष्टुत्वं निवर्तत इति भावः। तुष्ट्रच इति । 'शपूर्वाः खयः' इति तकारशेषः। आदेशसकारत्वात् षत्वम् । ऋज गतीति । अजनं संपादनम् । उपार्जनं सेवनम् । अर्जत इति । शपि लघूपधगुण, रपत्वम् । नुविधा. विति । वार्तिकमिदम् । पानृज इति । लिटः 'संयोगात्-' इति कित्त्वाद् गुणाभावे द्वित्वे उरदत्वे रपरत्वे हलादिशेषे 'श्रत आदेः' इति दीर्घ नुडिति भावः । ऋजि भृजी इति । ऋदुपधौ द्वौ। आद्य इदित् । द्वितीयस्य ईदित्त्वात् 'श्वीदितो निष्ठायाम्' इति नेट । इदित्त्वान्नुम् । अनुस्वारपरसवर्णी। ऋजांचक इति । नुमि सति 'संयोगे गुरु' इति ऋकारस्य गुरुत्वाद् 'इजादेश्च-' इत्याम् । ऋजिता । समवाय इति वक्ष्यते । लोच । ऋदित्त्वाद् 'नाग्लोपि-' इति ह्रस्वनिषेधः अलुलोचत् । 'पचि व्यक्तीकरणे' । 'पचि विस्तारवचने' इति चुरादौ । ऋज गति । अर्जनं प्राधान्येन, उपार्जनं तु प्रासनिकम् । नुविधावित्यादि । 'नुविधिलादेशविनामेषु तु प्रतिविधेयम्' इति वचनान्नुडादिविधिषु वर्णेकदेशस्य वर्णत्वेन ग्रहणादिति भावः। यद्वा द्विहल्पहणं भाष्यादौ प्रत्याख्यायते । न च आट आटतुरित्यत्रातिप्रसनः । 'प्रश्नोतेश्च-' इत्यनेन अवर्णोपधस्य यदि भवति तयश्नोतेरेवेति नियमात्सिद्धमिष्टमित्यन्यत्र विस्तरः । ऋजिभृजी। भर्जनं जलं विना तण्डुलादेः संतापविशेषः ।