________________
अजन्तनपुंसकलिङ्गाः । २३८ शि सर्वनामस्थानम् १ । १ । ४२ । शि इत्येतदुक्तसंशं स्यात् । २३६ नपुंसकस्य झलचः ७।१।७२ । झलन्तस्याजन्तस्य च क्लीबस्य नुम् स्यात् सर्वनामस्थाने । २४० मिदचोऽन्त्यात् परः १ । १।४७ ।
अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित् स्यात् । उपधादीर्घः । 'शानानि । पुनस्तद्वत् । शेषं पुंवत् । एवं धन-वन-फलादयः ।
२४१ अड्डतरादिभ्यः पञ्चभ्यः ७ । १ । २५ । एभ्यः क्लीबेभ्यः स्वमोरदडादेशः स्यात् । २४२ टेः ६ ! ४ । १४३ ।।
डिति भस्य टेर्लोपः । कतरत्, कतरद् । कतरे । कतराणि । हे कतरत् । शेषं पुंवत् । एवं कतमत् । इतरत् । अन्यत् । अन्यतरत् । अन्यतमस्य त्वन्यतममित्येव । (एकतरात् प्रतिषेधो "वक्तव्यः ) एकतरम् ।
शानानि-ज्ञान + ( जस् ) शि, शकारस्येत्संज्ञालापौ, सर्वनामस्थानसंज्ञा, नुम्, ज्ञानन् + इ, इति स्थिती, 'सर्वनामस्याने चासम्बुद्धौ' इत्युपधादीर्घः । २-डित्कररणं टिलोपार्थम् । ३-कतरत् –'कतर' शब्दात् प्रथमैकवचने सुविभक्तौ प्रमादेशं बाधित्वा 'मड-डतरादिभ्यः पञ्चभ्यः' इति सोरड्यादेशेऽनुबन्धलोपे 'कतर अत्' इति स्थिती भसंज्ञायां 'टेः' इति टिलोपे ''कतरत्' इति सिद्धम् । ४-नायं तमप्प्रत्ययान्तः, किन्तु प्रव्युत्पन्नप्रातिपदिकः, स्वभावाद् बहुविषये निधरिणे वर्तते, डतम-प्रत्ययान्तस्वाभावादेव म सर्वनामसंज्ञापि, ततश्च अन्यतमाय । अन्यतमात् । अन्यतमानाम् । अन्यतमे । इत्येतान्येव रूपाणि: नतु स्मै-स्मात्-सुट-स्मिन् घटितानि । ५-प्रद्डादेशस्येति भावः ।
२३८-शि की सर्वनामस्थानसंज्ञा होती है ।
२३६-झलन्त और अजन्त नपुंसक अंग को नुमागम होता है, सर्वनामस्थान परे रहते।
२४०-अचों के मध्य मे अन्त्य अच् से मरे और उसी अन्त्य अच् का अन्तावयव मित् होता है।
२४१-नपुसकलिंग में डतरादि पाँच से परे सु श्रम को अ आदेश होता है। २४२-डित्प्रत्यय परे रहते भसंज्ञक टि का लोव होता है।