________________
अजन्तपुल्लिङ्गाः
त्रिशब्दस्य त्रयादेशः स्यादाभि । त्रयाणाम् । त्रिषु । गौणत्वेऽपिप्रियत्रयाणाम् । (अकारनिधिसूनम)
१६३ त्यदादीनामः ७ । २ । १०२। सरादीनाम्
एषामकारो विभक्तौ । ( दिपर्यन्तानामेवेष्टिः ) द्वौ । द्वौ। द्वाभ्याम् ३ । द्वयोः २। पाति लोकमिति पपीः = सूर्यः । दीर्घाज्जसि च । पप्यौ २ । पप्यः । हे पपीः । पपीम् । पप्या । पपीभ्याम् ३ । पपीभिः। पप्ये । पपीभ्यः२। पप्यः । पप्योः । दीर्घत्वान्न नुट, पायाम् । ङौ तु सवर्णदीर्घः । पपी पप्योः । पपीषु । एवं वातप्रम्यादयः । बह्वयः "श्रेयस्यो यस्य स बहुश्रेयसी। सभा १६४ ‘यू स्व्याख्यौ नदी १ । ४ । ३ ।
ईदूदन्तो नित्यस्त्रीलिङ्गो नदीसंज्ञो स्तः। (प्रथमलिङ्गग्रहणं च ) = पूर्व 'स्व्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः । "१६५ अम्ब र्थनघोह स्वः ७ । ३ । १०७ ।
१-वहुव्रीहिसमासे (अन्यपदार्थप्रवाने ) समागतानि समस्तानि गौणानि = उपसर्जनानि वा उच्यन्ते । प्रियायो यस्य स प्रियत्रिः' तेषां "प्रिपत्रयाणाम्' । २-'त्यद्' इत्यारभ्य 'द्वि' शब्दपर्यन्त मेव 'अ' कारो भवति- इति इष्यते इष्टिः । ३.-द्वाभ्याम्-'वि' शब्दात् तृतीयाद्विवचने भ्यामि विभक्तौ 'त्यदादीनामः' इति 'इकारस्याकारे 'सुपि चे' ति दी सिध्यति रूपं द्वाभ्याम्' इति । ४-'यापोः किद् द्वे च' इत्युणादिसूत्रण 'ई'प्रत्ययः, द्वित्वम्, पालो पश्च, 'पातो लोप इटि च' इत्यनेन । ५ आमि रूपमिदम् । ६-पपी-'पपीशब्दात् सप्तम्येकवचने 'ङि' विभक्तौ अनुबन्धलोपे 'पपी' इति रूपम् । ७-श्रेयस्यः == कल्याएयः स्त्रियः । ८-ईश्च ऊश्व 'यू' = ईदूदन्तौ इत्यर्थः, स्त्र्याख्यौ = नित्यस्त्रीलिङ्गी, इत्यर्थः, स्त्रियम् प्राचक्षाते इति विग्रहाद्, तदेवाह वृत्तौ। ६-यः शब्दः प्रथम स्त्रोलिङ्गः स्यात् पश्चादुपसनदशायां लिङ्गविपर्ययेऽपि तस्य नदीसंज्ञा भवतीति भावः । १०-'अम्बार्थानां नद्यन्तानां च हस्वः स्यात् सम्बुद्धौ, इति सूत्रार्थः ।
१६३-त्यदादियों को अकार अन्तादेश होता है विभक्ति परे रहते ('द्वि शब्द तक)। १९४-ईदन्त, ऊदन्त नित्य स्त्रीलिङ्ग शब्दों की नदी संज्ञा होती है। ( वा० जो शब्द पहले नित्य स्त्रीलिङ्ग हो वह उपसर्जन होने से अन्यलिङ्ग में भी नदीसंज्ञक होता है।)
१६५-अम्बार्थक और नदीसंज्ञक को ह्रस्व होता है सम्बुद्धि परे रहते ।