SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ असन्धिप्रकरणम् ५२ अदसो मात् १ । १ । १२ । अस्मात्परावीदूतौ' प्रगृह्यौ स्तः । अमी ईशाः। रामकृष्णावमू आसाते। मात्किम् -अमुकेऽत्र । ५३ चादयोऽसचे १ । ४ । ५७ । अद्रव्यार्थाश्वादयो निपाताः स्युः । ५४ प्रादयः १।४ । ५८ । एतेऽपि तथा । ५५ निपात एकाजनाङ १।१।१४ । एकोऽज निपात आवर्जः प्रगृह्यः स्यात् । इ इन्द्रः । उ उमेशः । ("वाक्यस्मरणयोरङित् ) आ एवं नु मन्यसे। आ एवं किल तत् । अन्यत्र ङित् । ईषदुष्णम् ओष्णम्। ५६ ओत् १ । १ । १५ । १-"५१ ईदूदेद् द्विवचनं प्रगृह्यम्" इत्यतः ईत् ऊत् च अनुवर्तते, प्रस्माद् =मान्ताददस इत्यर्थः । २-अमीईशाः-'प्रमो+ ईशाः' इति स्थितौ 'पादसो मात्' इति सूत्रेण मान्ताददसः परस्य ईकारस्य प्रगृह्यसंज्ञायां सवणंदोघं बाधित्वा 'प्लुतप्रगृह्या प्रचि नित्यम' इत्यनेन प्रकृतिभावे सिध्यति रूपम 'प्रमी ईशाः' इति । ३ असति माद्ग्रहणे एकारोऽप्यनुवर्तेत. सति तु माद्ग्रहणेऽयम्भवात् नानुवृत्तिः तेन अमुकेऽत्र ( अमुके+पत्र ) इत्यत्र न प्रकृतिभावः । किन्तु पूर्वरूपम् (अमुके इति जसि रूपम् )। ४-निपाता इत्यर्थः । ५-ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं हितं विद्याद् वाक्यस्मरणयोरङित् ॥" ६-प्रा + उष्णम् , अत्र गुणः ईषदुष्णमित्यर्थनिर्देश; । ५२-मान्त श्रदस शब्द से परे ईकार, ऊकार की प्रगृह्य सज्ञा होती है । ५३-अद्रव्यार्थक 'च' आदि निपात सज्ञक होते हैं । ५४-अद्रव्यार्थक 'प्र' आदियों की भी निपात सञ्ज्ञा होती है। ५५-श्राङ को छोड़कर एक अच् रूप निपात प्रगृह्यसज्ञक होता है। [वा. वाक्य और स्मरण अर्थ में 'श्रा' ङित् नहीं होता ] अन्यत्र ङित् होता है। ५६-श्रोदन्त निपात प्रगृह्य सज्ञक होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy