________________
२६६
तद्धिताः ११०८ अवचबे च 'प्राण्योषधि वृक्षेभ्यः ४ । ३। १३५ ।
चाद्विकारे । मयूरस्याऽवयवो विकारो वा मायरः । मौर्व-काण्डं भस्म वा। पैप्पलम् । ११०६ मयडवैतयोर्भाषायामभक्ष्याच्छादनयोः ४ । ३ । १४३ ।
प्रकृतिमात्रान् मयड् वा स्यात् विकारावयवयोः। अश्ममयम्, "आश्मनम् । अभक्ष्येत्यादि किम्-मौद्गः सूपः । कार्पासमाच्छादनम् ।
१११० नित्यं वृद्ध-शरादिभ्यः ४ । ३ । १४४ । 'आम्रमयम्। ११११ गोश्च पुरीष ४ । ३ । १४५ । गोः पुरीषं-गोमयम् ।
१-षष्ठ्यन्तेभ्यः प्राण्योषधिवृक्षवाचकशब्देभ्यः अवयवे विकारे चार्थेऽणादयः प्रत्ययाः स्युरित्यर्थः । २-मूर्वी पोषविभेदः, तस्या विकारः । काण्डम् = पर्व । ३-पिप्पल्याः विकारो भस्म वा । ४-भक्ष्याऽऽच्छादनभिन्नयोर्विकारावयवयोरित्यर्थः । ५-आश्मनम्-(अश्मा कश्चित पुरुषविशेषः न तु पाषाणः । अश्मनाविकारोऽवयवो वा इत्यर्थे 'अश्मन् शब्दात् 'मयडवैतयोाषायाम' इति प्राप्तस्य मयटोऽभावे 'तस्य विकारः' इत्यणि 'अन्' इति प्रकृतिभावेन टिलापाभावे चादिवृद्धौ प्रातिपदिकत्वे सौ सोरमि सिध्यति रूपम् 'पाश्मनम्' इति ( नन्वत्र 'पाश्मनो विकारे टिलोपो वक्तव्यः टिलोपः कथं नेति चेन्न, प्रसिद्धस्य पाषाणवाचकस्याश्मशब्दस्यैव तत्र ग्रहणात् ) । ६-वृद्धम् = 'वधिय॑स्याचामादिस्तद वृद्धम् । ७-आम्रस्य विकारोऽवयवो वा।८-गोमयम-'गोः पुरीषम्'-इत्यर्थे पुरोषार्थ षष्ठ्यन्ताद् 'गो' शब्दात् 'गोश्च पुरीषे' इति 'मयट्' प्रत्यये सुब्लुकि विभक्तिकार्ये सिध्यति रूपं 'गोमयम्' इति ।
११०८-प्राणि-श्रोषधि और वृक्षवाचक शब्दो से अवयव और बिकार अर्थ में अशादि प्रत्यय होते हैं।
११०६-मयट प्रत्यय विकल्प से होता है विकार और अवयव अर्थ में । भक्ष्य और आच्छादन अर्थ को छोड़कर ।
१११०-शरादिगणपठित और वृद्धसंज्ञक शब्दों से नित्य मयट होता है विकार और अवयव अथों में। ११११-गोशब्द से 'पुरीष' अर्थ में मयट् प्रत्यय होता है ।