SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २४८ लघुसिद्धान्तकौमुद्याम् नियतोपस्थितिकः प्रातिपदिकार्थः। मात्रशब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थमात्रे लिङ्गमात्राद्याधिक्ये परिमाणमात्रे संख्यामात्रे च प्रथमा स्यात् । प्रातिपदिकार्थमात्रे-उच्चैः । नीचैः। कृष्णः । श्रीः । शानम् । लिङ्गमात्रे-- तटः। तटी। तटम् । परिमाणमात्रे-द्रोणो 'व्रीहिः । वचनं-संख्या। एकः । द्वौ । बहवः। ८८६ सम्बोधने च २ । ३ । ४७ । प्रथमा स्यात् । हे राम! ८६० करीप्सिततमं कर्म १ । ४ । ४६ । कर्तुः क्रियया आप्तुमिष्टतमं "कारकं कर्मसंशं स्यात् । ८६१ कर्मणि द्वितीया २ । ३ । २ । अनुक्ते कर्मणि द्वितीया स्यात् । हरि भजति । अभिहिते तु कर्मादौ 'प्रथमा । हरिः 'सेव्यते । लक्ष्म्या १°सेवितः। ८६२ अकथितं च १ । ४ । ५१ । १-यस्मिन् प्रातिपदिके उच्चारित यस्यार्थस्य नियमेनोपस्थितिः सोऽत्र प्रातिपदिकार्थों विवक्षितः इत्यर्थः । २-अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकमात्रस्योदाहरणानि । ३अनियतलिङ्गाश्च लिङ्गमात्राद्याधिक्यस्य। ४-द्रोणपरिमाणपरिच्छिन्नो व्रीहिरित्यर्थः । ५-'कारके' इत्यधिकारादिदं लभ्यते । कारकम् = क्रियाजनकम् । कारकाणि षट्-कर्ता, कर्म, करणम्, सम्प्रदानम्, अपादानम, अधिकरणं चेति । ६-अनभिहिते इति, यस्मिन्नर्थ प्रत्ययः स उक्तः अभिहितः, तमिन्नोऽनुक्तः-प्रनभिहितः, यथा-'हरि भजति' इत्यत्र कर्तरि तिङ्प्रत्यय इति कर्म (हरिः) अनुकम् = अनभिहितम् । ७हरि भजति-पत्र भजनक्रियायाः कर्म हरिः । भजतीत्यत्र कर्तरि प्रत्ययाद् उक्तः कर्ता, कर्म चानुक्तम् । 'कमणि द्वितीया' इति सूत्रेण 'हरि' शब्दाद् द्वितीया विभक्तिः । ८-परिशेषात्प्रातिपदिकार्थमात्रे प्रथमा ।।-प्रत्रकर्मणि प्रत्ययः । १०-पत्र कर्मणि क्तः । ८८६-सम्बोधन में प्रथमा विभक्ति होती है। ८६०-कर्ता को क्रिया के द्वारा प्रान करने के लिये इष्टतम कारक की कर्म संज्ञा होती है। ८६१-अनुक्त कर्म में द्वितीया विभक्ति होती है। ८६२-अपादानादि विशेषों से अविवक्षित कारक कर्मसंज्ञक होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy