________________
२३४
खघुसिद्धान्तकौपुद्याम् ८३० म्बोश्च ८।२। ६५ । मान्तस्य धातोर्नत्वं म्वोः परतः। 'जगन्वान् । ८३१ लटः शत-शानचावप्रथमासमानाधिकरणे । ३ । २ । १२४ ।
अप्रथमान्तेन समानाधिकरणे लट एतौ वा स्तः शबादि । पचन्तं चैत्रं पश्य।
८३२ आने मुक ७ । २। ८२।
अदन्ताङ्गस्य मुगागमः स्यादाने परे पचमानं चैत्रं पश्य । लडित्यनुवर्तमाने पुनर्लग्रहणात् प्रथमासामानाधिकरण्येऽपि क्वचित् । सन् द्विजः।
८३३ विदेः शतुर्वसुः ७ । १ । ३६ । वेत्तेः परस्य शतुर्वसुरोदेशो वा । विदन् । “विद्वान्
१-गम धातोः लिटः क्वसौ रूपम्। द्वित्वादिकं पूर्ववत्, जगन्वस्शब्दः, उगित्वान्नुम् 'सान्तमहतः...' इति दीर्घः । जगन्वान्, जगन्वांसी, जगन्वांसः, जगन्वांसम् , जगन्वांसौ, जग्मुषः, ( 'वसोः सम्प्रसारणम्' इति सम्प्रसारणं पूर्वरूपम् ) जग्मुषा, जगन्वद्भ्याम् ('वसुस्रंसु...' दत्वम् ) स्त्रियां जग्मुषी। २, ३-पचन्तं-पचमानम्'पच्' धातोर्लटि । 'लटः शातु-शानचौ' इति सूत्रेण परस्मैपदे । लटः शतृ. प्रात्मनेपदे च लटः शानजादेशः । शतृशानचोः शित्वेन सार्वधातुके शपि पररूपे प्रात्मनेपदे च शानचि 'पानेमुग्' इति मुगागमे उभयत्र प्रादिपदिकत्वे विभक्तिकार्ये द्विनीयैकवचने रूपद्वयमिदं पचन्तं पचमानं वा पश्य । ४-अस्तीति 'सन' 'इनसोरल्लोपः' इति प्रकारलोपः। ५विद्वान्-'विद' घातो 'त्ति' इति विग्रहे 'लटः शत-शानची' इति लटः शत्रादेशे शतुश्च 'षिदेः शतुर्वसुः' इति वा वस्वादेशे 'विद्वस्' शब्दात् प्रातिपदिकत्वेन सौ ठगित्वात नुमि ‘सान्त-महतः' इत्युपधादीघे 'हलङ्याद' इति सुलोपे संयोगान्तलोपे च 'विद्वान्' इति । (वस्वादेशाभावपक्षे शतरि पि छुकि 'विदत' शब्दात् सौ नुमि सुलोपे 'संयोगान्ते' ति तलोपे च 'विदन्' इति रूपम् )।
८३०-मान्त धातु को नकार आदेश होता है मकार-वकार परे रहते।
८३१-अप्रथमान्त के साथ समानाधिकरण होने पर लट् के स्थान में शतृ और शानच् प्रत्यय होते हैं।
८३२-अदन्त अङ्ग को मुक का आगम होता है प्रान परे रहते । ८३३-विद् धातु से परे शतृ के स्थान में बसु आदेश होता है विकल्प से ।