SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २३० लघुसिद्धान्तकौमुद्याम् ८०६ खित्यनव्ययस्य ६ । ३ । ६६ । खिदन्ते परे पूर्वपदस्य ह्रस्वः नत्वव्ययस्य । ततो मुम्। 'कालिमन्या। ८०७ करणे यजः ३।२।८५ । करणे उपपदे भूतार्थयजेणिनिः कर्तरि । सोमेनेष्टवान् 'सोमयाजी । अग्निष्टोमयाजी। ८०८ दृशेः क्वनिप् ३ । २ । ६४ । कर्मणि भूते । पारं दृष्टवान् पारदृश्वा । ८०६ राजनि युधि "कुञः ३ । २।१५। क्वनिप् स्यात् । युधिरन्त वितण्यर्थः । राजानं योधितवान् राजयुध्वा । राजकृत्वा। ८१० सहे च ३ । २ । ६६ । १-कालिंमन्या-कालीमात्मानं मन्यते इति विग्रहे 'भारममाने खश्च' इति खशि तस्य शित्वेन सार्वधातुकत्वे श्यनि 'अतो गुणे' इति पररूपे कर्मषष्ठयामुपपदसमासे सुम्लुकि 'खित्यनव्ययस्य' इंति ह्रस्वे 'अद्विषद' इत्यादिना मुमि स्त्रीत्वे टापि विभक्तिकायें 'कालिमन्या' इति रूपम् । २-'प्रत उपधायाः' इति-उपधावृद्धिः । ३-कर्मणिउपपदे भूते-काले इत्यर्थः। ४-पारदृश्वा-पारं दृष्ट्वानिति विग्रहे पारोपपदाद् 'दृश्' धातोः 'दृशेः क्वनिप्' इति 'क्वनिप' प्रत्ययेऽनुबन्धलोपे 'पारदृश्वन्' इत्यस्य कृदन्तत्वेन प्रातिपदिकसंज्ञायां प्रथमैकवचने सौ उपधादीघे सोर्लोपे नलोपे सिध्यति रूपं 'पारदृश्वा' इति । स्त्रियां 'वनो र च' इति सूत्रण नस्य रेफः डीप च पारदृश्वरी, एवं राजयुध्वरी, राजकृत्वरी । इत्यादि। ५-राजनि (राजशब्दे) उपपदे युध-कृषोः क्वनिप ६-'ह्रस्वस्य पिति कृति' इति तुक् । ८०६-अव्ययभिन्न पूर्व पद को हस्व होता है खिदन्त पर रहते । ८०७-करण उपपद रहते यज् धातु से भूतार्थ णिनि प्रत्यय होता है कर्ता में । ८०८-कर्म उपपद रहते दृश् धातु से भूतार्थ में क्वनिप् प्रत्यय होता है। ८०६-कर्मसंज्ञक राजन् शब्द उपपद् रहते युध् और कृञ् धातु से भूतार्थ में स्वनिम् प्रत्यय होता है। ८१०-सह उपपद रहते युष् से स्वनिए होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy