________________
२२१
कृदन्ते कृत्यप्रक्रिया वा स्यात् । कृष्णं नमेच्चत्सुखं यायात्। कष्णं नस्यति चेत्सुखं यास्यति। भविष्यत्येवेप्यते । नेह-हन्तीति पलायते । (४२५ ) विधिनिमन्त्रणेति लिङ् । विधिः-प्रेरणं = भृत्यादनिकृष्टस्य प्रवर्तनम्, यजेत । निमन्त्रणं-नियोगकरणमावश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् , इह भुञ्जीत । आमन्त्रणं = कामचाराऽनुशा, इहासीत । अधीष्टः सत्कारपूर्वको ब्यापार, पुत्रमध्यापयेद्भवान् । सम्प्रश्नः-सम्प्रधारणम् , किं भो वेदमधीयीय उत तर्कम् । प्रार्थनंन्याच्या, भो भोजनं लभेय । एवं लोट । इति लकारार्थप्रक्रिया।
इति तिङन्तम् ।
अथ कृदन्ते कृत्यप्रक्रिया ७६६ धातोः ३ । १।११।
आतृतीयाध्यायसमाप्ति ये प्रत्ययास्ते धातोः परे स्युः। (३०२ ) कृदतिडिति कृत्संज्ञा।
७६७ वाऽसरूपोऽस्त्रियाम् ७ । १ । १४ ।
अस्मिन् धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् त्यधिकारोक्तं विना'।
१-तेन 'प्रचो यत्' 'ऋहलोण्यंत्' इत्याद्यपवादविषये उत्सर्गाः (सामान्याः) तव्यदादयोऽपि प्रवर्तन्ते, भव्यम्-भवितव्यम्, कार्यम्-कत्तंध्यम् । वाच्यम्-वक्तव्यमित्यादि । न समानं रूपं यस्य सोऽसरूपः ( प्रसारूप्ये एवायं वैकल्पिको बाधः । ) सरूप. स्तुत्सर्गस्य नित्यं बाधको भवति यथा-'कर्मण्यण' इत्युत्सर्गस्य 'प्रातोनुपसर्गे कः' इत्यपवादो नित्यं बाधकः-गोदः, कम्बलदः, ( प्रण (अ) क (अ) इत्युभौ हि सरूपी)। स्त्यधिकारे नेयं परिभाषा ( सूत्र) प्रवर्तते, तेन स्त्रियां क्तिन्' इत्युत्सर्गस्य 'अप्रत्ययात्' इत्यपवादो नित्यं बाधकः-चिकीर्षा जिहीर्षा ।
कृदन्ते कृत्यप्रक्रिया ७६६- 'धातोः' सूत्र से लेकर ततीयाध्यायसमाप्ति पर्यन्त तव्यादि प्रत्यय धातु से परे होते हैं।
७६७-'धातोः' इस सूत्र के अधिकार में असरूप अपवाद प्रत्यय उत्सर्ग का बाधक विकल्प से होता है 'स्त्रियाम्' इस अधिकार को छोड़कर ।