________________
तिङन्ते आत्मनेपदप्रक्रिया
२१३ ७४२ पूर्ववत् सनः १ । ३ । ६२ । सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । 'एदिधिषते। ७४३ हलन्ताच १ । २ । १० । इक्समीपाद्धलः परो झलादिः सन् कित् । निविविक्षते ।
७४४ गन्धनावक्षेपण-सेवन-साहसिक्य-प्रतियत्न-प्रकथनोपयोगेषु 'कुञः १ । ३। ३२ ।
गन्धनं = सूचनम् । "उत्कुरुते = सूचयतीत्यर्थः । अवक्षेपणं = भर्सनम्। श्येनो वर्तिकामुत्कुरुते = भर्त्सयतीत्यर्थः हरिमुपकुरुते = सेवत इत्यर्थः । परदारान् प्रकुरुते - तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते-गुणमाधत्ते। कथाः प्रकुरुते = कथयतीत्यर्थः । शतं प्रकुरुते धर्मार्थ विनियुङ्क्ते । एषु
१-एदिधिषते-'ए' धातोः सन्नन्ताद् द्वित्वेऽभ्यासत्वे जश्त्वे षत्वे 'एदिधिष' इत्यस्य धातुस्वे लटि 'पूर्ववत् सनः' इत्यनन सनः प्रकृते 'रेघ' धातोरात्मनेपदित्वात् सन्नन्तादपि तस्मादात्मनेपदमेवेति लटि तादेशे शपि पररूपे टेरेत्वे 'एदिधिषते' । २-निविविक्षते-नि-विशधातुः, सतः कित्वानोपधागुणः शस्य षत्वे (षढोः कः सि-इति षस्य कत्वे परस्य षत्वे क्षः )। 'निर्विशः' इति शुद्धादात्मनेपदम् , सन्नन्ताच 'पूर्ववत्सनः' इति सूत्रेण । ३-एषु अर्थेषु कृष आत्मनेपदमेवेत्यर्थः । ४-उत्कुरुते उत् पूर्वकात् 'कृन' धातोः जित्वादुभयपदे प्राप्ते 'गन्धनावक्षेपण' इत्यादिना सूत्रेण गन्धने = सूचनेऽर्थे प्रात्मनेपदनियमः । ५-एधोदकस्योपस्कुरुते-धश्च दकं च एधोदकम् (एधः = इन्धनम, दकं = जलम् ) तस्य एधोदकस्य उपस्कुरुते = ( 'उपात्प्रतियत्न' इति सुट् 'कृनः प्रतियस्ने' इति षष्ठी )= गुणमाधत्ते इत्यर्थः । अत्र एंधशब्दोऽदन्तो निपातितः । 'उपस्कुरुते' इत्यत्र गुणाधानेऽर्थे 'गन्धनावक्षेपण' इत्यनेनात्मनेपदम् । एधस्य-काष्ठस्य शोषणादि गुणाधानम् । दकस्य-जलस्य तु गन्धद्रव्यसम्पर्क-जनित-गन्धाधानम् ।
७४२- सन से पूर्व धातु के तुल्य सन्नन्त से भी आत्मनेपद होता है। ७४३-इकसमीप हल से परे झलादि सन् कित् होता है। ७४४-गन्धनादि अथों में कृ धातु से आत्मनेपद होता है। इत्यात्मनेपदिनः ।