SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २०६ तिन्क्ते नामधातुग्रक्रिया २०६ ७२८ कष्टाय क्रमणे ३ । १ । १४ । चतुर्थ्यन्तात् कष्टशब्दादुत्साहेऽर्थे क्यङ स्यात् । कष्टाय क्रमते'कष्टायते । पापं कर्तुमुत्सहते, इत्यर्थः । ७२६ शब्द वैर-कलहाभ्र-कराव-मेघेभ्यः करणे ३ । १ । १७ । एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । शब्दं करोति = शब्दायते । तत्करोति तदाचष्टे' इति णिच् । (प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च)-प्रातिपदिकाद्धात्वर्थे णिच् स्यात्, इष्ठे यथा प्रातिपदिकस्य पुंवद्भाव-रभाव-टिलोपविन्मतुब्लोप-यणादिलोप-प्र-स्थ-स्फाद्यादेश-भसंशास्तद्वण्णावपि स्युः। इत्यल्लोपः घटं करोत्याचष्टे वा "घट यति । इति नामधातवः १-कष्टम् = पापम् । कष्टायते-चतुर्थ्यन्तात् कष्टशदात कष्टाय क्रमणे' इति क्याड सुपो लुकि 'प्रकृत्सार्वधातुकयो' रिति दीर्घ 'सनाद्यन्ताः' इति कष्टाय' इत्यस्य धातुत्वे डित्वादात्मनेपदे लटि तादेशे शपि टेरेत्वे पररूपे च सिध्यति रूपं 'कष्टायते' इति । २-शब्दायते-'शब्दं करोति' इति विग्रहे द्वितोयान्तात 'शब्द'-शब्दात करोत्यर्थे 'शब्चबैरकलहाभ्र' इत्यादिना क्यङि प्रत्यये सुपो लुकि 'अकृत सार्वधातुकयो'रिति दीर्घ शब्दाय' इत्यस्मात् लटि तादेशे शपि टेरेल्वे पररूपे सिध्यति रूपं 'शब्दायते' । ३-पुवद्भावो यथा-पट्वीमाचष्टे पठयति, (भस्याऽढे तद्धिते, इत्यनेन)। रभावो यथा-दृढं करोति द्रढयति । टिलोपो यथा-पटुमाचष्टे पटयति । विनो लुग यथा-स्रग्विणम् प्राचष्टे स्रजयति । मतुपो लुग्यपा-श्रीमन्तौं करोति श्राययति । यणादिपरलोपो यथा-स्थूलमाचष्टे स्थवयति, प्रादेशो यथा-प्रियमाचष्टे प्रापयति । स्थादेशो यथा-स्थिरं करोति स्थापयति । स्फादेशो यथा-स्फिरमाचष्टे स्फापयति ! भसंज्ञा यथा-पट्वीमाचष्टे पटयति । ४-टिसज्ञकम्य-अकारस्य लोपः । ५-घटयति-घटं करोत्याचष्टे' वेति विग्रहे द्वितीयान्ताद् ‘घट' शब्दात 'प्रातिपदिकाद्धात्वर्थे' इति णिचि इष्ठवद्भावे च सुपो लुकि इष्ठवभावाट्टिलोपेऽल्लोपस्य स्थानिवत्त्वाद् उपधावृद्धयभावे 'घटि' इत्यस्य धात त्वाल्लटि तिपि शपि गुणेऽयादेशे सिध्यति रूपं 'घटयतो' ति । इति नामधातुप्रकरणम् । ७२८-चतुर्थ्यन्त कष्ट शब्द से उत्साह अर्थ में क्यप होता है। ७२६-कर्मवाचक शब्द-वैरादि शब्दों से क्या होता है करोति अर्थ में ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy