________________
२००
लघुसिद्धान्तकौमुद्याम् प्रयोजक-व्यापार प्रेषणादौ वाच्ये धातोणिच् स्यात् । भवन्तं प्रेरयति 'भावयति।
७०१ ओः पुयएज्यपरे ७ । ४ । ८० ।
सनि परे यदङ्ग तदवयवाभ्यासोकारस्य इत् स्यात् पवर्ग-यण-जकारेप्ववर्णपरेषु परतः। अबीभवत् । ष्ठा गतिनिवृत्तौ ।
७०२ अर्ति-ही-ब्ली-री-क्न्यी-चमाय्यातां पुङ् णौ ७ । ३ । ३६ । स्थापयति । ७०३ तिष्ठतेरित ७।४।५। उपधाया इदादेशः स्याच्चङ परे णौ । "अतिष्ठिपत् । घट चेष्टायाम् ।
१ ( स्वनिष्ठाधारतानिरूपिताधेयतासम्बन्धेन ) हेतुर्यत्रास्ति न हेतुमान् व्यापारः । प्रषणादिः (अध्येषणानुमत्युपदेशाः) तस्मिन् वाच्ये । २-भावयति-'भू' धातो 'हेतुमति च' इति प्ररणाके णिचि अनुबन्धलोपे वृद्धौ पावादेशे 'भावि' इत्यस्य 'सनाद्यन्ताः धातवः' इति पुनर्धातुसंज्ञायां लटि तिपि पि गुणेऽयादेशे सिध्यति रूपं 'भावयति' इति । 'रिणचश्च' इति कर्तृगे फले-प्रात्मनेपदम् । भावयते, भावयेते, भावयन्ते, इत्यादिरपि । इस्थमत्र कतृ योजना-प्रकार:-देवदतो भवति, भवन्तं त यज्ञदत्तः प्रेरयति, इति यज्ञदत्तो देवदत्तं भावयति (भावयते वा)। लिडादो-भावयाश्चकार, भावयाञ्चक्रे, इत्यादिरूपाणि । ३-भूधातोण्यंन्ताल्लुङ अडागमे च्लेश्वङि 'णिचि अच प्रादेशो न द्वित्वे कर्तव्ये' इति पूर्ववृद्धयभावे 'भू' इत्यस्य द्वित्वे अभ्यासकायें ( भस्य बत्वे ह्रस्वे च ) अबू भू + इ +4 त इति स्थितौ ( परस्य ) वृद्धौ पावादेशे ‘णौ चङ युपधाया ..' इति ह्रस्वे सन्वभावे अभ्यासोकारस्य इत्वे (णिलोपे ) 'दी| लघोः' इति दीर्घः, प्रबीभवत् । ४-स्थापयति = तिष्ठन्त प्रेरयति इत्यर्थे 'स्या' धातोर्णिचि प्रादन्तत्वात् 'अति ह्री' इति पुकि 'स्थापि' इत्यस्य पुनर्धातुसंज्ञायां लटि तिपि शपि गुणेऽयादेशे सिध्यति रूपं 'स्थापयति' इति । ५-अ स्थाप+ इ+त , स्थितौ द्वित्वे, 'शपूर्वा खयः' इति 'प्रथास्थाप+ इ+प्रत्' अभ्यासस्य ह्रस्वे चत्वे उपधाह्रस्व च अभ्यासस्य 'सन्यतः' इतीत्वे. णिलोपे, षत्वे ष्ट्रत्वे प्रतिष्ठप् प्रत् इति स्थिते उपधाया (प्रकारस्य) इत्वे, प्रतिष्ठिपत ।।
७०१-सन् परे रहते जो अङ्ग उसके अवयव अभ्यास को इकारादेश होता है अवर्ण-परक पवर्ग, यण जकार परे रहते ।
७०२--अर्ति, ही आदि धातुओं को पुक् का आगम होता है णि परे रहते । ७०३-स्था धातु की उपधा को इकार आदेश होता है चङ् परक णि परे रहते ।