SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १८ लघुसिद्धान्तकौमुद्याम् तेषामिह ग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु स्वार्थे । (४५१) पुगन्तेति गुणः (४६८) सनाद्यन्ता इति धातुत्वम् । तिप् शबादि । गुणायादेशौ । 'चोरयति । ६६५ णिचश्च १ । ३ । ७४ । णिजन्तादात्मनेपदं स्यात् कर्तगामिनि कियाफले। चोरयते। चोरयामाल । चोरयिता। चोर्यात् । चोरयिषीष्ट (५१८) गिश्रीति चङ । (५३०) णौ चङीति ह्रस्वः । (५३१) चङीति द्वित्वम् । (३६६) हलादिः शेषः । (५३४) दी? लघोरित्यभ्यासस्य दीर्घः। अचूचुरत् । अचूचुरत । कथ वाक्यप्रबन्धे । २। "अल्लोपः। ६६६ अचः परस्मिन् पूर्व विधो । १।१ । ५७ । परनिमित्तोऽजादेशः स्थानिवत् स्यात् स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इति "स्थानिवत्त्वान्नोपधावृद्धिः। कथयति । अग्लोपित्त्वा १-चोरयति–'चुर' धातोः 'सत्याप-पाशे'-ति स्वार्थे णिचि 'पुगन्ते' ति गुणे 'चोरि' इत्यस्य 'सनाद्यन्ता धातवः' इति पुन(तुसंज्ञायां लटि तिपि शपि 'सार्वधातुकार्धधातुकयो' रिति गुणे अयादेशे सिध्यति रूपं 'चोरयति' इति । २-चोर्यात-'चुर्' धातोर्णिचि गुणे 'चोरि' इत्यस्य पुनर्धातुसंज्ञायामाशीलिङि तिपि इकारलोपे यासुटि अनुबन्धलोपे 'चोरि यास् त्' इति जाते 'स्को' रिति सकारलोपे 'णेरनिटि' इति णिलोपे 'चोर्यात्' इति रूपम् । ३-अचूचुरत्-'चुर' धातोः स्वायें णिचि 'पुगन्ते' ति गुणे 'चोरि' इत्यस्य पुनर्धातुसंज्ञायों लुङि तिपि इकारलोपेऽडागमे मध्ये च्लौ 'णि-धि,द्रु-सुभ्यः' इति च्लेश्चङि ‘णेरनिटि' इति णि लोपे अचोर् अत्' इति स्थितौ ‘णौ चङ्युफ्यायाः' इति उपधाह्रस्वे 'चङि' इति द्वित्वेऽभ्याससंज्ञायां हलादिशेषे 'सन्वल्लघुनि' इति सन्वद्भावे 'दीर्घोलघोः इत्यभ्यासदोघं सिध्यति रूपम् 'अचूचुरत्' । ४-णिचि 'अतो लोपः' इति अन्त्यावयवस्याऽकार :य लोपः । ५-अल्लोपस्येत्यर्थः । ६-कथयति-प्रदन्तात् 'कथ' धातोः स्वार्थे णिचि 'प्रतो लोपः' इत्यलोपे 'अचः परस्मिन् पूर्वविधौ' इत्यल्लोपस्य स्थानिवद्भावे 'प्रत उपधायाः' इति वृद्धयभावे 'कथि' इत्यस्य पुनर्धातुसंज्ञायो लटि तिपि शपि गुणेऽयादेशे सिनि रूपं 'कथयति' इति । ६६५-णिजन्त धातुओं से आत्मनेपद होता है कर्तृगामी क्रिपाफल में । ६६६-पर को निमित्त मान कर होनेवाला जो अच् के स्थान में आदेश, वह म्थानिवत् होता है स्थानिभूत अच् से पूर्व दृष्ट को विवि करने में।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy