________________
लघुसिद्धान्तकौमुद्याम्
अनयोरिदन्तादेशः सिच्च कित् स्यादात्मनेपदे । 'अदित। श्रदास्यत्, अदास्यत । 'डुधाञ् धारण-पोषणयोः । १० । दधाति ।
६२५ दधस्तथोश्च ८ । २ । ३८ ।
द्विरुक्तस्य भषन्तस्य धाञो बशो भष स्यात्तथोः परयोः स्ध्वोश्च परतः । धत्तः दधति । दधासि । धत्थः । धत्थ । धत्ते । दधाते । दधते । धत्से । धध्वे । ( ५७७ ) ध्वसोरेद्भावभ्यासलोपश्च । धेहि । श्रदधात् । अधत्त । दध्यात् । दधीत । धेयात्, धासीष्ट । अधात् । अधित । अधास्यत्, अधास्यत । णिजिर शौचपोषणयोः | ११ | ( इर इत्संज्ञा वाच्या ) ।
६२६ णिजां त्रयाणां गुणः श्लौ ७ । ४ । ७५ |
१६६
गिज्-विज् विषामभ्यासस्य गुणः स्यात् श्लौ । ४ नेनेक्ति । नेनिक्तः । नेनिजति । नेनिक्ते । निनेज । निनिजे । नेक्ता । नेक्ष्यति, नेक्ष्यते । नेनेक्तु नेनिग्धि ।
-
१ – 'हस्वादङ्गात्' सिचो लोपः । श्रदित, श्रदिषाताम् श्रदिषत । प्रदियाः, प्रदिश्रदिवम् । श्रदिषि प्रदिष्वहि, प्रदिष्महि । २ - अस्य चोपसर्गयोगे
पाथाम् एवमर्थविशेषः
'विपूर्वो धा करोत्यर्थे अभिपूर्वस्तु भाषणे ।
मेलने चापि संपूर्वी निपूर्वः स्थापने मतः ॥ १ ॥
यथा - कार्यं विदधाति ( इति करोत्यर्थे ) मधुरमभिदधाति । ( भाषणे ) । कुण्डले संदधाति (मेलने) । पादं निदधाति ( स्थापने ) । ३ - यथा 'दत्तः' इति । ४ - नेनेक्ति'रिणजिर्' धातोरस्य नत्वे इर इत्संज्ञायां लोपे च लटि तिपि शपः श्लौ द्वित्वेऽभ्यास काय 'निनिज् ति' इति स्थितौ 'निजां त्रयाणाम् इति श्रभ्यासस्य गुणे परस्य च 'पुमन्ते' ति गुणे जस्य कुत्व चत्वें 'नेनेति' इति रूपम् ।
"
६२५ – द्विरुक्त झषन्त धातु के बश् को भष् होता है तथ और स-ध्व परे रहते । (बा० - इर् की इत्संज्ञा होती है ) ।
६२६ - णिज्, विज्, और विषु धातु के अभ्यास को गुण होता है श्लु के विषय में ।