SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ तिङन्ते जुहोत्यादयः १६५ जिहाते । जिहते । जहे । हाता। हास्यते । जिहीताम् । अजिहीत । जिहीत । हासीष्ट । अहास्त । अहास्यत । भृन धारणपोषणयोः ।८। बिभर्ति । बिभृतः । बिभ्रति । बिभृते । विभ्राते। 'बिभ्रते । २बिभराञ्चकार, बभार । बभर्थ । बभूव । बिभराञ्चक्र, बभ्र। भर्ता। भरिष्यति, भरिष्यते । बिभर्तु । बिभराणि । बिभृताम् । अविभः । अबिभृताम् । अबिभरुः । अबिभृत । बिभृयात , विभ्रीत । भ्रियात् , भृषीष्ट । अभार्षीत्, "अभृत । अभरिप्यत अभरिष्यत । डुदान दाने । ६ । ददाति । दत्तः । ददति । दत्ते । ददाते। ददते । ददौ, ‘ददे । दाता । दास्यति, दास्यते । ददातु । ६२३ दा था बदाप १ । १ । २० । दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप-दैपो विना। (५७७ ) ध्वसोरित्येत्वम् । 'देहि । दत्ताम् । अददात् । अदत्त । दद्यात् । ददीत । देयात् । दासीष्ट । ''अदात्। अदाताम् १२अदुः। ६२४ स्थाध्वोरिच १ । २ । १७ । १-विभ्रते-'भृञ्' धातोर्लटि प्रथमपुरुषबहुवचने झादेशे शपः श्लौ द्वित्वे 'भृनामित्' इति अभ्यासस्य रपरे :कारे हलादिशेषे भस्य बत्वेऽभ्यस्तसंज्ञायाम् 'अदभ्यस्तात्' इति भस्य प्रति टेरेत्वे यणि च कृते बिभ्रते इति, परस्मैपदे च 'बिभ्रति' इति । २'भीहीभृ..' इत्याम् । ३-'रिशयलिङक्षु' इति रिङ् । अत्र रिङ् इति ह्रस्वविधानसामर्थ्यान्न दीर्घः । ४-'उश्च' इति कित्वान्न गुणः । ५-'ह्रस्वादङ्गात्' सिचो लोपः । ६-श्नाभ्यस्तयोरातः' इति पालोपः । अघोरिति निषेधात् 'ई हल्यघोः' इति-ईत्वं न । ७-'प्रात औरणलः' इति-पौत्वम्' ८-'अातो लोप इटि च' इत्याकारलोपः । ६-देहि-'दा' घातोलोटि सिपि सेहौं शपः श्लौ द्वित्वेऽभ्यासह्रस्वे च कृते 'द दा हि' इति स्थितौ 'दाधा ध्वदाप्' इति घुसंज्ञत्वे 'ध्वसोरेशावभ्यासलोपश्च' इति एत्व ऽभ्यासलोपे सिध्यति रूपं देहि' इति । १०-'एलिङि' । ११–'गातिस्थाघुपा... .' इति सिचो लुक् । १२–'प्रातः' इति जुस् 'उस्यपदान्तात्' इति पररूपम् । ६२३-दारूप धारूप धातु को घु संज्ञा होती है दाप् दैप् धातु को छोड़ कर । ६२४-स्था धातु और घुसंज्ञक धातु को इकार अन्तादेश होता है और सिच कित होता है आत्मनेपद परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy