________________
१३२
लघुसिद्धान्तकौमुद्याम् ५०१ हुश्नुवोः सार्वधातुके ६ । ४ । ८७ ।
हुश्नुवोरनेकाचोऽसंयोगपूर्वस्योवर्णस्य यण स्यादचि सार्वधातुके । 'श्रृण्वन्ति । श्रृणोषि । श्रृणुथ । श्रृणोमि ।
५०२ लोपश्चास्यान्यतरस्यां म्योः ६ । ४ । १०७ ।
असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः । श्रृण्वः । श्रृणुवः । श्रृण्मः, श्रृणुमः । शुश्राव । शुश्रुवतुः । शुश्रुवुः । शुश्रोथ । शुश्रुवथुः । शुश्रुव । शुश्राव, शुश्रव । शुश्रूव । शुश्रुम । श्रोता । श्रोष्यति । श्रृणोतु । श्रृणुतात् । श्रृणुताम् । श्रृण्वन्तु।। - ५०३ उतश्च प्रत्ययादसंयोगपूर्वात ६ । ४ । १०६ ।
असंयोगपूर्वात प्रत्ययादुतो हेर्लुक । श्रृणु, । श्रृणुतात ।श्रृणतम् ।श्रृणुत । गुणावादशौ । 'श्रृणवानि । श्रृणवाव । श्रृणवाम । अश्रृणोत् । अश्रृणुताम् । अश्रृण्वन् । अश्रृणोः। अश्रृणुतम् । अश्रृणुत । अश्रृणवम् । अश्रृण्व, अश्रृणुव । अश्रृण्म, अश्रृणुम । श्रृणुयात् । श्रृणुयाताम् । श्रृणुयुः। श्रृणुयाः । श्रृणुयातम् । श्रृणुयात् । श्रृणुयाम् । श्रृणुयाव । श्रृणुयाम । श्रृयात् । अश्रौषीत् अश्रो प्यत् । गम्ल गतौ । २० । ___२-शृण्वन्ति-'श्रु' धातोलिटि प्रथमपुरुषबहुवचने झौ झेरन्तादेशे 'ध्रुवः शृ च' इति शृ इत्यादेशे श्नुप्रत्यये च 'शृनु अन्ति इति स्थिते 'सार्वधातुकमपित्' इति कित्वे गुणाभावे 'हुश्नुवोः सार्वधातुके' इति यणि णत्वे च सिद्ध रूपं 'शृण्वन्ति' इति । २-"पाडुत्तमस्य पिच्च” इति 'पाट्' । ३-"प्रकृत्सावधातुकयोः' इति दीर्घः । ४-अश्रौषीत्-'श्रु' धातोलुङि तिपि इकारलोपे च्लौ च्ले: सिचि अटि इएिनषेधे ईटि 'अश्रु स ई त्' इति जाते ‘सिचि वृद्धिः परस्मैपदेष' इति उकारस्य 'वृद्धौ सस्य षत्वे 'अश्रौषीत्' इति रूपम् । अश्रोपोत् , अश्रौष्टाम , अश्रौषुः । अश्रौषीः, अश्रौष्टम , अश्रौष्ट । प्रश्रौषम , अश्रौप्व, अश्रौष्म । अत्र सर्वत्र "सिचि वृद्धिः परस्मै..." इत्यनेन वृद्धिः । __५०१-हु धातु और श्नुप्रत्ययान्त जो अनेकाच अङ्ग, तदवयव असंयोगपूर्वक उवर्ण को यण आदेश होता है अजादि प्रत्यय परे रहते ।
५०२-असंयोगपूर्वक प्रत्ययके उकार का लोप होता है विकल्पसे वकारमकार परे रहते।
५०३-असंयोगपूर्वक प्रत्यय के उकारान्त अङ्ग से परे हि का लुक होता है ।