________________
हलन्तनपुंसकलिङ्गाः अभ्यस्तात् परो यः 'शता तदन्तस्य क्लीवस्य वा नुम् सर्वनामस्थाने । ददन्ति । ददति । तुदत्।
३६५ आच्छीनद्योनु म् । ७ । १ । ८० ।
अवर्णान्तादङ्गात् परो यः शतुरवयवस्तदन्तस्य नुम् वा शीनद्योः तुदन्ती, तुदती तुदन्ति ।
३६६ शप-श्यनोनित्यम् । ७ । १।८१ ।
शःश्यनोरात् परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् शीनद्योः। पचन्ती। पचन्ति । दीव्यत् । दीव्यन्ती । दीव्यन्ति । धनुः। धनुषी । (३४२) सान्तेति दीर्घः । (३५२) नुविसर्जनोयेति षः। धनूंषि । धनुषा। धनुाम् । एवं "चतुर्ह विरादयः । पयः । पयसी । पयांसि। पयसा । पयोभ्याम् । सुपुम्। सुपुंसी। इत्यवङि, सवर्णदीधः, चौः कुरिति कुत्वम्, जश्त्वे वैकल्पिके चत्वे च गवाक्, गवाम् । प्रकृतिभावे गोअक् गोप्रग् । पूर्वरूपे गोऽक्, गोऽग्। पूजायां गवाङ् गोप्रा, गोऽडः । इति सौ नवरूपाणि । विस्तरभयान्न सर्वाणि दर्शितानि।
१-'शतृ' प्रत्ययः। २-द्विवचनान्तमिदम्। ३.-'धन' धातोः 'उस्' प्रत्ययः 'धनुष' शब्दो भवति । धनुामित्यत्र रेफान्तत्वेऽपि धातुत्वाभावात् हलि चेति वोरित्व च न दीर्घः । ४-धनूंषि-'धनुष्' शब्दात् प्रथमाबहुवचने जसि 'जसशसोरि' इति श्यादेशे सर्वनामस्थानसंज्ञायां नपुसकस्य झलचः' इति नुमि नस्यानस्वारे 'सान्तमहत: संयोगस्येति' उपधादीचे 'नुम विसर्जनीय शय॑वायेऽपि इति सस्य षत्वे सिध्यति रूपं 'धनूषि' इति । ५-चक्षुः, चक्षुषी, चक्षूषि । हविः, हविषी, हवींषि ।
३६५-अवर्णान्त अङ्ग से परे शतृप्रत्ययान्त शब्दस्वरूप को नुम् होता है विकल्प से शीप्रत्यय और नदीसंज्ञक परे रहते ।
३६६--शप श्यन् सम्बन्धी आकार से परे शतृ के अवयवान्त शब्दस्वरूप को नित्य नुम् होता है शी और नदी परे रहते ।
इति हलन्तनपुंसकलिङ्गाः
-::