________________
(८) भी प्रोत्तर भानभाया. 'विलवासिनामपि मनुजानां तथाविधकर्मक्षयोपशमेन यदि मांसपरिहारनियन्तृत्त्वं तदा सम्यग्दृशां तत्मुतरां ग्यादिति मांसभक्षणे सम्यक्त्वक्षतिरेव' इति निरस्तम् सम्भक्त्वस्य भावधर्मचेन कुलधर्ममात्रत्वाभावात् , तथाविधकर्मपरिणतेरनुचितप्र त्तिमतोऽपि श्रद्धानगुणेन तदनपगमात् । अन्यथा स्तेनानामपि केपाञ्चित्परदारगमनपरिहारनियन्तृत्त्वात् , ततोऽनिवृत्तस्य सत्यकिमभृतेः सम्यक्त्वमुच्छिद्येतवेति । न च मांसाहारस्य नरकायुबन्धस्थानत्वादेव तदनिवृत्तौ न सम्यक्त्वमिति शनीयम् , महारम्भमहापरिग्रहादीनामपि तथाचात् , तदनिवृत्तौ कृष्णवासुदेवानामपि सम्यक्त्वापगमापत्तेः। किञ्च सम्यक्त्वारिणां कृष्णप्रभृतीनां मांसभक्षणेऽपि सम्यक्त्वानपगमः शास्त्रे श्रूयते । तदुक्तं षष्ठाङ्गे-'तएणं दुवए राया कंपिल्लपुरं नगरं अणुपविसइ, अणुपविसित्ता विउलं असणं ४ उववखडावेइ, उवक्खडावित्ता कोडंबियपुरिसे सद्दावित्ता एवं वयासी-गच्छह पं तुम्मे देवाणुप्पिया ? विउलं असणं ४ सुरं मज्ज मंसं च संपनं च मुबहुपुप्फफलवत्स्यगंधमल्लालंकारं वासुदेवपामोक्खाणं रायसहस्साणं आवासेसु साहरह । तेवि साहरति । तएणं ते वासुदेवप्पामोक्खा विउलं असणं जाव सम्पन्नं आसाएमाणा विहरंति 'त्ति । न चात्र , मांसभक्षणादिकं स्वपरिवारभूमिथ्यादृशामेव तदाज्ञानिमित्तकत्वात् तत्कर्तृकं व्यपदिष्टमिति शङ्कनीयम्, 'वासुदेवप्रमुखा' इत्यत्र सर्वपामेकक्रियायोगात् सम्यक्त्वनाशके तदाज्ञादानग्याप्यनुपपत्तेश्च । यत्तु वर्णनमात्रत्त्वेनैतत्यूत्रस्याकिञ्चित्करत्वं परेण द्भाव्यते, तस्य महानेव कृतान्तकोपः । एवं सति स्वर्गादिप्रतिपादकमूत्राणामपि वर्णनमात्रत्वेनाकिञ्चित्करताया वावदूकेन व शक्यत्त्वाद् , लोकनिन्धविषयमात्रेणाऽपि यथास्थितार्थप्रतिपादकसूत्रविलोपे नास्तिकत्त्वस्यानिवारिप्रसरतया सर्वविलोपप्रसङ्गादिति ।