________________
આ પ્રશ્નોત્તર મોહનમાલ,
( ११३ ) ટીકામાં એલા દેવાજ આવ્યા છે એવે પણ પાઠ છે. આ વિષયને અંગે પ્રશ્ને ત્તરસા શતકમાં કલ્પસૂત્રાદ્રિ તેમજ આવશ્યકવૃત્તિના પાટા સહિત પ્રાત્તર છે તેજ અહિં આપવામાં આવે છે
' ननु वीरप्रभोः प्रथमदेशनायां कोऽपि न प्रतिबुद्धस्तत्र किं चतुर्विधा देवाजग्मुः किं वा मनुष्यादयोऽपि ? इति चेदुच्यते, कल्पवृत्ति-स्थानाङ्गवृत्ति--प्रवचनसारोद्वारवृहद्वृत्त्याद्यभिप्रायेण तु सर्वेऽप्याजग्म्र्न केवलं देवा एव तथा च तद्वृत्तिपाठोऽष्टात्रिंशदधिकशततमे दशाश्चर्यद्वारे श्रूयते हि भगवतः श्रीवर्द्धमानस्वामिनो जृम्भिकग्रामाद्बहिः समुत्पन्न निस्सपत्न केवलालोकस्य तत्कालसमा यातसंख्याती तसुरविरचितचारसमवसरणस्य भूरिभक्तिकुतूहला कूलित मिलिताऽपरिमिताऽमरनरतिरश्चां स्वस्वभाषानुसारिणा महाध्वनिना धर्म कथां कुर्वाणस्यापि न केनचिद्विरतिः प्रतिपन्ना, केवलं स्थितिपरिपा नायैव धर्मकथाऽभूदित्यादि, इत्थमेव श्रोमभयदेवसूरिकृतस्थानाङ्गवृत्तिपाठोऽपि बोध्यः, श्रीहरिभदसूरिकृतावश्यकबृहद्वत्त्यभिप्रायेण तु तदा देवा एवाजग्मुर्न तु मनुष्यादयः स्तथा च संक्षेपतस्तत्पाठः-
'भगवतो ज्ञानरत्नोत्पत्तिसमनन्तरमेव देवाश्चतुविधा अभ्यागता आसन्, तत्र च प्रवज्याप्रतिपत्ता न कश्चिद् विद्यते इति भगवान् विज्ञाय विशिप्रधर्मकथनाय न प्रवृत्तवात्, ततो द्वादशसु योजनेषु ' मध्यमा' नाम नगरी, तत्र सोमिलाये नाम ब्राह्नणः, स यज्ञं यष्टुमुद्यतः, तत्र चैकादशोपाध्यायाः खल्वागता इति, ते च चरम शरीराः, ततःत्र तान् विज्ञाय ज्ञानोत्पत्तिस्थाने देवपूजां जीतमिति. कृत्त्वा अनुभूय देशनामात्रं कृत्वा असंख्येयाभिर्देवकोटिभिः परिवृतो देवोद्योतेनाशे पन्थानमुद्योतयन् देवपरिकल्पितेषु पद्मेषु चरणन्यासं कुर्वन् मध्यमा गर्यो महसेनवनोद्यानं सम्प्राप्त इति गाथार्थः ॥ ( आवश्यक - हारिभद्रीया टीका. मु० पत्र २२९ )
श्रीमदाचाराङ्ग द्वितीयश्रुतस्कन्धे षष्ठाध्ययने पुनरयं पाठः, तओणं समणे भगवं महावीरे उप्पन्ननाणदंसणधरे पुग्वं देवा णं धम्ममाइक्खर, तओ पच्छा मणुस्साणं, तओ णं गोयमाईणं समणाणं, इत्यादि । तत्त्वं पुनर्विशिष्टश्रुतधरः केवलिनो वा विदन्तीति ॥