________________
++ + + + + + + + + + + + + + + + ++ नवार + + + + + + + + + + + + + + ++ ++ શુતજ્ઞાન श्रुतज्ञानमभिधित्सुराह - હવે શ્રુતજ્ઞાનનું અભિધાન કરતાં કહે છે
'जं पुण तिकालविसयं आगमगंथाणुसारि विन्नाणं ।
इंदियमणोनिमित्तं तं सुयनाणं जिणा बिंति ॥८२४॥ (यत् पुनस्त्रिकालविषयमागमग्रन्थानुसारि विज्ञानम् । इन्द्रियमनोनिमित्तं तत्श्रुतज्ञानं जिना बुवते ॥ यत्पुनस्त्रिकालविषयं शब्दार्थालोचनत्रिकालावलम्बिसमानपरिणामगोचरत्वात्, अस्य च ज्ञानस्य शब्दार्थालोचनात्मकत्वात् तथाचाह-आगमग्रन्थानुसारि-श्रुतग्रन्थानुसारि शब्दार्थालोचनानुसारीतियावत् विज्ञानं इन्द्रियमनोनिमित्तं तत् श्रुतज्ञानं प्रागभिहितशब्दार्थं जिना ब्रुवते ॥८२४॥ - ગાથાર્થ:- જે જ્ઞાન (૧) આગમ-શ્રતગ્રન્થાનુસારી અર્થાત શબ્દાર્થની વિચારણાને અનુસરે છે અને તેથી જ (૨) ત્રિકાળ(ભૂત, વર્તમાન અને ભવિષ્ય) વિષયક છે, કેમકે શબ્દાર્થનું આલોચનાત્મકશાન ત્રણેય કાળને અવલંબીને રહેલા સમાનપરિણામને વિષય બનાવતું શ્રેય છે. અને (૩) ઇન્દ્રિય અને મનને નિમિત્ત ( કારણ–સાધન) બનાવી પ્રવરે છે, તે ( આ ત્રણેય યોગ્યતાવાળું) જ્ઞાન પૂવે દર્શાવેલા શબ્દાર્થવાળું શ્રુતજ્ઞાન છે. એમ જિનેશ્વરો કહે છે. u૮૨૪ અવધિજ્ઞાન अवधिज्ञानमाह - હવે અવધિજ્ઞાન બતાવે છે.
ओहिन्नाणं भवजं खओवसमियं च होति नायव्वं ।
तेयाभासंतरदव्वसंभवं वविविसयं तु ॥८२५॥
(अवधिज्ञानं भवजं क्षायोपशमिकं च भवति ज्ञातव्यम् । तेजोभाषान्तरद्रव्यसंभवं रूपिविषयं तु ॥ - अवधिज्ञानं पूर्वोक्तशब्दार्थं भवजं-भवप्रत्ययं क्षायोपशमिकं च भवति ज्ञातव्यम् । तत्र भवजं देवनारकाणां, क्षायोपशमिक तिर्यग्मनुष्याणाम्। नन्वाभिनिबोधिकादिज्ञानचतुष्टयं क्षायोपशमिकमेव नारकादिभवश्च तदायुःकर्मोदयादिजनितत्वादौदयिकस्तत्कथमिदमवधिज्ञानं तन्निमित्तं भवेत् ? औदयिकत्वप्रसङ्गात् । नैष दोषः यतस्तदपि तत्त्वतः क्षायोपशमिकमेव, परं सोऽपि क्षयोपशमस्तस्मिन्नारकादिभवे सत्यवश्यं भवति, कर्मणां क्षयोपशमादेविचित्रनिमित्तापेक्षित्वात्, तदुक्तम्-"उदयक्खयखओवसमोवसमा जं च कम्मणो भणिया । दव्वं खेत्तं कालं भवं च भावं च संपप्प ॥१॥" (छा. उदयक्षयक्षयोपशमोपशमा यच्च कर्मणो भणिताः । द्रव्यं क्षेत्रं कालं भवं च भावं च संप्राप्य) इति, ततो नारकादिभवस्यावश्यं तत्क्षयोपशमहेतुत्वात् अवधिज्ञानं तन्निमित्तमुच्यत इति । यदाह भाष्यकृत्-“ओही खलूवसमिए भावे भणिओ भवो तहोदइए । तो किह भवपच्चइओ वोत्तुं जुत्तोऽवही दोण्हं ? ॥१॥ सोवि हु खओवसमिओ किंतु स एव उ खओवसमलाभो । तम्मि सइ होइवस्सं भन्नइ भवपच्चओ तो सो ॥२॥" (छा. अवधिः खल्वौपशमिके भावे भणितो भवस्तथौदयिके । तस्मात्कथं भवप्रत्ययो वक्तुं युक्तोऽवधिद्धयोः ॥१॥ सोऽपि खल्वौपशमिकः किंतु स एव तु क्षयोपशमलाभः । तस्मिन् सति भवत्यवश्यं भण्यते भवप्रत्ययस्तस्मात्सः ॥२॥ इति । किंविषयं पुनस्तदवधिज्ञानं प्रथमत उत्पद्यत इत्यत आह -'तेयेत्यादि' तैजसानि च भाषाश्च-भाषायोग्यानि द्रव्याणि च तेषामन्तरं-यानि द्रव्याणि उभयायोग्यानि तत्र संभवः-उत्पत्तिर्यस्य तत्तथा, 'रूविविसयं त्विति' तुरेवकारार्थः रूपिविषयमेव न त्वरूपिविषयम् । ननु यदि रूपिविषयमेवावधिज्ञानं तर्हि किमुक्तमागमे- “खेत्तओ णं ओहिन्नाणी जहन्नेण अंगुलासंखेज्जइभागं जाणइ पासइ, उक्कोसेणं असंखिज्जाइं अलोगे लोगमेत्ताई खंडाइं जाणइ पासइत्ति" (छा. क्षेत्रतोऽवधिज्ञानी जघन्यनाङ्गुलासंख्येयभागं जानाति पश्यति, उत्कर्षेणासंख्येयान्यलोके लोकमात्राणि खण्डानि जानाति पश्यति ॥) इह ह्यलोकोऽप्यसंख्येयलोकमात्रखण्डात्मकोऽवधिज्ञानस्य विषय उक्त इति, तदयुक्तम, अभिप्रायापरिज्ञानात्, नहि तत्राकाशखण्डान्येव लोकप्रमाणानि असंख्येयानि विषयतया साक्षानिर्दिष्टानि, किंतु यदि तत्रापि द्रष्टव्यं रूपि वस्तुजातं भवेत्, तत एतावन्मात्रे क्षेत्रे पश्येदिति संभवमाश्रित्य सामर्थ्यमात्रयु(मुक्तम्, “न उ पेच्छइ खेत्तकाले सो" (छा. न तु पश्यति क्षेत्रकालौ सः) इतिवचनात्, तथाचाह भाष्यकृत्-सामत्थमित्तमेयं दृट्ठव्वं जइ हवेज पेञ्छेज्जा ।
++++++++++++++++
sle-
२ - 127+++++++++++++++