________________
यदेव परेण व्यामोहादाशङ्कितं, तदेव व्यवच्छेत्तव्यम् । चैत्रस्तु धनुर्धरो लोके न प्रतीतस्ततश्चैत्रस्याधनुर्धरत्वाशङ्काव्यवच्छेदनाय धनुर्द्धरत्वविधानाय च वाक्यमुच्चार्यते चैत्रो धनुर्द्धर एवेति । पार्थस्तु धनुर्द्धरो लोके प्रतीत इति तस्मिन्नाधनुर्द्धरत्वाशङ्का कस्यचिद्विद्यते, ततो यदतिशयवत्तस्य धनुर्द्धरत्वं तत्किमन्यत्रापि पुरुषान्तरेऽस्ति नवेत्येवं पुरुषान्तरसाधारणमाशङ्कितमिति पुरुषान्तरेण सह तस्य साधारण्यव्यवच्छेदाय चाक्यमिदमुच्यते पार्थं एव धनुर्धर इति । यदा तु सरोज नीलवर्णविविक्तं कस्यचित्प्रसिद्धं, नीलत्वं पुनरस्य किमस्ति नास्तीति शङ्कितं भवति, तदा तदत्यन्तासंभवाशङ्काव्यवच्छित्तये वाक्यमेतत्प्रयुज्यते- नीलं सरोजं भवत्येवेति । तथेहापि धर्मः पुरुषार्थो लोके प्रतीत एवेति तस्मिन्नापुरुषार्थत्वाशङ्का कस्यचिद्विद्यते, यत्पुनरैकान्तिकात्यन्तिकरूपं पुरुषार्थत्वं तत् किमन्यत्रापि अर्थादौ विद्यते नवेत्येवं पदार्थान्तरसाधारण्यमाशङ्कितम्, अतस्तस्यार्थादिभिः साधारण्यव्यवच्छित्तये वाक्यमिदमुच्चार्यते - धर्मः खलु पुरुषार्थो, नार्थकामाविति । यथा चापुरुषार्थता अर्थकामयोस्तथा धर्म्मसारटीकाया मभिहितमिति नेह प्रतायते । अथ किंस्वरूपः स धर्म्मो योऽत्यन्तासाधारणः पुरुषार्थ इत्यतस्तत्स्वरूपमुपदिशति - 'सपरुवयारो य सो मुणेयव्वोत्ति' स्वपरयोरुपकारस्वरूपश्च 'स' धम्र्म्मो ज्ञातव्यः । स चोपकारो नामादिभेदाच्चतुर्द्धा । तत्रातीव सुज्ञातत्वान्नामस्थापने अनादृत्य द्रव्यभावभेदेनोपकारस्य द्वैविध्यमुपदर्शयन्नाह उवयारेत्यादि' उपकारोऽपि च द्विविधो 'द्रव्ये' द्रव्यविषयो 'भावे च' भावविषयश्च ज्ञातव्यः, द्रव्यभावस्वभावभेदेन द्विविध उपकारो ज्ञातव्य इतियावत् ॥४॥ तत्र- 'यथोद्देशं निर्देश' इति न्यायात् द्रव्योपकारं तावदाह-दव्वम्मि अन्नपाणादिदाणरूवो तु होइ विन्नेओ । नेगंतिओ अणच्चंतिओ य जं दव्वतो तेणं ॥ ५ ॥
(द्रव्ये अन्नपानादिदानरूपस्तु भवति विज्ञेयः । नैकान्तिकोऽनात्यंतिकश्च यद् द्रव्यतस्तेन ॥ )
" द्रव्ये द्रव्यविषय उपकारोऽन्नपानादिदानरूपो विज्ञेयः । तुः पूरणार्थः । यथा चास्य द्रव्यरूपता तथा भावयति 'नेगंतिये' त्यादि, 'यत्' यस्मान्नैवासावुपकार ऐकान्तिकः, कदाचिदतोऽपकारसंभवात् । नाप्यात्यन्तिक :, पुनरुपकारापेक्षणात् । तेन कारणेनायमुपकारो 'दव्वओत्ति' द्रव्यतो द्रव्यस्वभावत्वेन विज्ञेय इति ॥५॥ प्रकारान्तरेण पुनरपि द्रव्योपकारमाह
इहपरलोगट्ठा तह जो कीरइ अविहिणा व भत्तीए । एसोऽवि दव्वओ च्चिय मोक्खंगाभावतो जाण ॥ ६ ॥
(इहपरलोकार्थं तथा यः क्रियतेऽविधिना वा भक्त्या । एवोऽपि द्रव्यत एव मोक्षाङ्गाभावतो जानीहि ॥
इहलोकार्थं परलोकार्थं वा, तथेति द्रव्योपकारप्रकारान्तरतासमुच्चयार्थं यः क्रियते स्वपरयोः सम्यग्दर्शनज्ञानचारित्रेषु संस्थापनलक्षण उपकारः, यद्वा इहपरलोकाशंसाविरहेण परमभक्तथा सम्यक्त्वादिषु स्वपरयोः संस्थापनलक्षणो य उपकारः क्रियते, केवलमविधिना, एषोऽपि द्रव्यत एव, चियशब्दः प्राकृतनिपात एवकारार्थो, द्रव्यस्वभावत्वेनैव ज्ञातव्यः । द्रव्यत्वं चेहाप्राधान्यं विवक्षितम् । तथाचाह- 'मोक्खंगाभावओ जाणत्ति' भावप्रधानोऽयं निर्देशः, मोक्षाङ्गत्वाभावादेषोऽप्युपकारो द्रव्यत एवेति जानीहि । मोक्षाङ्गत्वाभावश्चाविधिकलुषितत्वात् ॥ ६ ॥ सम्प्रति भावोपकारं व्याख्यानयन् आह-
(द्रव्य उपहास्नु स्वयं)
તેમાં •ઉદ્દેશના ક્રમથી નિર્દેશ હોય” તે ન્યાયથી સૌ પ્રથમ દ્રવ્યઉપકાર બતાવે છે.
ગાથાર્થ :- વ્યવિષયમાં ઉપકાર અન્નપાનવગેરેના ાનરૂપ સમજવો. (તુ” શબ્દ પૂરણ અર્થે-શબ્દપૂર્તિમાટે છે.) (અન્નપાનવગેરેની દ્રવ્યરૂપતા બતાવે છે) આ ઉપકાર એકાન્તિક નથી (કેમકે ક્યારેક તેનાથી અપકાર પણ સંભવે છે.) વળી આ ઉપકાર આત્યંતિક પણ નથી. કેમકે ફરીથી ઉપકારની અપેક્ષા રાખે છે.) તેથી આ ઉપકાર द्रव्यथी - द्रव्यस्वभावउपसभ॥५॥
(જે સ્વાર્યમાં હંમેશા અને સર્વત્ર અવ્યભિચારી હોય, તે એકાન્તિક કહેવાય અને જે સ્વકાર્યને ફરીથી કરવાની અપેક્ષા ન રહે તેવી રીતે પૂર્ણ કરે તે આત્યંતિક કહેવાય. જેમકે, ભાવઉપકાર—જેનું સ્વરૂપ બતાવાશે)
અન્યપ્રકારદ્વારા ફરીથી દ્રવ્યઉપકારનું સ્વરૂપ દર્શાવે છે.
ગાથાર્થ :– (તથા” શબ્દ દ્રવ્યઉપકારના વિષયમાં પ્રકારાન્તરનો સમાવેશસૂચક છે.) આલોકમાટે કે પરલોક્માટે, અથવા ભક્તિથી પણ અવિધિથી જે કરાય, તે પણ દ્રવ્યત: ઉપકાર જ છે. કેમકે તેમાં મોક્ષાંગપણાનો અભાવ છે મોક્ષની કારણતાનો અભાવ છે.
(પૂર્વે બાહ્ય દ્રવ્યને અપેક્ષીને દ્રવ્યતઃ ઉપકારની વિવક્ષા કરી. હવે આપ્યંતર ઉપકાર પણ આશંસા કે અવિધિથી યુક્ત હોય, તો દ્રવ્યોપકાર બને, તેમ દર્શાવે છે.) સ્વ અને પરને સમ્યગ્દર્શન, જ્ઞાન અને ચારિત્રમાં સ્થાપવા–સ્વપરને આ સ્નત્રયીની પ્રાપ્તિ કરાવી આપવી, તે જ વાસ્તવમાં ઉપકારૂપ છે. આવો ઉપકાર જો આલોકની કે પરલોકની આશંસાથી કરાય, તો તે દ્રવ્ય
ધર્મસંગ્રહણિ ભાગન ૧૪