________________
प्रभावकचरिते
550
10
15
६२१. इतश्च स्वर्विमानश्रीस्ततः प्रभृति विश्रुतः । श्रीकुमारविहारोऽयं भव्यदृक्पुण्यलक्षणम् ॥ ६७५ ।।
पटुवैकटिकश्रेणिघटनाकोटिटंकितम् । बिम्ब श्रीपार्श्वनाथस्य निष्पन्नं रम्यवावधि ॥ ६७६ ॥ प्रातिष्ठिपत् शुभे लग्ने मत्री श्रीहेमसूरिभिः । अतिचिन्तामणि' प्राणिवाञ्छितातीतवस्तुदम् ।। ६७७॥ प्रासादशुकनासेच भूपतिमोक्षकाभिधम् । छिद्रे विमोचयामास विश्वोपकृतितत्परः ॥६७८ ॥ पूर्णमासीनिशीथे च रोगिप्रार्थनया ततः । प्रकटीकृततच्छिद्रेऽमृतमस्रावि बिम्बतः ६७९ ॥ तच्चक्षरादिरोगाणामपहारं जनेऽतनोत् । उपचक्रे क एवं हि नृपतिः सर्वतो मुखम् ॥ ६८०॥ प्रासादैः सप्तहस्तैश्च यथावणैर्महीपतिः । द्वात्रिंशतं विहाराणां साराणां निरमापयत् ॥ ६८१ ॥ द्वौ शुभ्री श्यामलौ द्वौ च द्वौ रक्तोत्पलवर्णको । द्वौ नीलौ षोडशाथ स्युः प्रासादाः कनकप्रभाः॥६८२॥ चतुर्विंशतिचैत्येषु श्रीमन्तो ऋषभादयः । 'सीमंधराद्याश्चत्वारश्चतुर्पु निलयेषु च ॥ ६८३ ॥ श्रीरोहिणिश्च समवसरणं प्रभुपादुकाः । अशोकविटपी चैवं द्वात्रिंशत् स्थापितास्तदा ॥ ६८४ ॥ द्वात्रिंशतः पुरुषाणामनृणोऽस्मीति गर्भितम् । व्यजिज्ञपत् प्रभोभूपः पूर्ववाक्यानुसारतः ॥ ६८५ ।। सपश्चविंशतिशताङ्गुलमानो जिनेश्वरः । श्रीमत्तिहुणपालाख्ये पंचविंशतिहस्तके ॥ ६८६ ।।
विहारेऽस्थाप्यत श्रीमान्नेमिनाथोऽपरैरपि । समस्तदेशस्थानेषु जैनचैत्यानचीकरत् ॥ ६८७ ॥-युग्मम् । ६२२. क्षणे धर्मोपदेशस्य सप्तव्यसनवर्णनम् । घनदोगत्यदुर्योनिभवभ्रमणकारणम् ॥ ६८८॥
उपादिक्षत् प्रभू राज्ञे स्वदेशेऽसौ न्यषेधयत् । अचीकरदमारिं च पटहोद्घोषपूर्वकम् ॥६८९ ॥ पुरा देशभ्रमिस्थेन राज्ञा मृतवणिप्रिया । सपादलक्ष ऐक्षिष्ट खेदिता राजपूरुषैः ॥ ६९०॥ तदा निषेधं जग्राह तस्या एवानुकम्पया । निर्वीराखेन नो कार्य राज्यं चेन्मे भविष्यति ॥ ६९१ ॥ अधुनाऽत्र मृते कापि व्यवहारिणि विश्रुते । अपुत्रे तद्धनं कान्तानीयतास्याधिकारिभिः ॥ ६९२ ॥ स्वामी पप्रच्छ तान् कस्य विपुत्रश्रीर्भवेदियम् । तेऽवदन् रूढिरेषाऽस्ति तत्पुत्रस्य नृपस्य वा ॥ ६९३ ॥ स्मित्वाऽह भूपः पूर्वेषां राज्ञामेषाऽविवेकधीः । यत्कौटिल्यं विना वाच्या दोषा निजगुरोरपि ॥ ६९४ ॥ अशाश्वतश्रियः सर्वाधीनाया हेतवे नृपाः । उत्तमाधममध्यानां पुत्रतामनुयान्ति यत् ॥ ६९५ ॥ तस्मान्नाहं भविष्यामि विश्वलोकस्य नन्दनः । विश्वस्यानन्दनो भावी निर्वीराधन उज्झिते ॥ ६९६ ॥ मृतभर्तृसताद्रव्यमित्यौज्झद् भूपतिः सुधीः । अमुक्तं नल-रामायैरपि प्राक्कालराजभिः॥ ६९७॥
प्रभर्निजोपदेशानां सत्यत्वात् परितोषवान् । भूपवृत्तलसद्वृत्तिस्थेम्ने वृत्तमुदाहरन् ॥ ६९८॥ 25
तद्यथानयन्मुक्तं पूर्वैरघुनघुषनाभागभरत
प्रभृत्यु-नाथैः कृतयुगकृतोत्पत्तिभिरपि । विमुश्चन् सन्तोषात् तदपि रुदतीवित्तमधुना
कुमारक्षमापाल ! त्वमसि महतां मस्तकमणिः ॥ ६९९ ॥ 30 एवं सान्तःपुरो राजा प्रत्याख्यानी' निरन्तरम् । राज्यं बभार देवेन्द्र इव स्फीतं विकण्टकम् ।। ७०० ॥ ६२३. अन्येद्युजैनधर्मस्थं भूपालं प्रणिधिवजैः । बलहीनं द्विधा ज्ञात्वा कल्याणकटकाधिपः ।। ७०१ ।।
भूपोऽभ्यमित्रयन्नाधात् प्रयाणं बलकोटिभिः । कुमारपालस्तज्ज्ञात्वा चारैश्चिन्तामवाप च ॥ ७०२॥ विज्ञप्तं च प्रभूणां तत् प्रभोज॑नस्य मे किमु । अस्मात् पराभवो भावी प्राप्तशासनलाघवः ।। ७०३ ।।
प्रभुराह महाराज ! त्वां श्रीशासनदेवताः । पान्ति जानाति लग्नस्तत् सप्तमे वासरे भवान् ।। ७०४ ॥ 1N अतिचिन्तामणिं वांछिता। 2N शुकनासेव । SAD सामन्ताद्याश्च चत्वार 4 N भूपं । 5N निवारास्तेन । 6N अभुकं। 70 °ख्याननिरं। 8N नायात् ।