________________
547
२२. हेमचन्द्रसूरिचरितम् ।
२०३
अभ्युत्थाय महीरोन ते दत्तासन्युपाविशन् । राजाह सुगुरो ! धर्मं दिश जैनं तमोहरम् ' ॥ ५८४ ॥ अथ तं च दयामूलमाचख्यौ स मुनीश्वरः । असत्यस्तेनताब्रह्मपरिग्रहविवर्जनम् ॥ ५८५ ॥ निशाभोजनमुक्तिश्च मांसाहारस्य हेयता । श्रुति स्मृति-स्वसिद्धान्तनियामकशतैर्हढा ॥ ५८६ ॥ उक्तं च योगशास्त्रे -
चिखादिषति यो मांसं प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं दयाख्यं धर्मशाखिनः ।। ५८७ ।। अशनीयन् सदा मांसं दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्लीं स रोपयितुमिच्छति ।। ५८८ ॥ हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा ।
क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ॥ ५८९ ॥ 'अनुमन्ता विशसिता नियन्ता क्रयविक्रयी । संस्कर्ता चोपहर्त्ता च खादकश्चेति घातकाः' ।। ५९० ॥ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते कचित् । न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ।। ५९१ ॥
इत्यादिसर्वयानां परित्यागमुपादिशत् । तथेति प्रतिजग्राह तेषां च नियमान् नृपः ॥ ५९२ ॥ श्रीचैत्यषन्दनस्तोत्रस्तुति मुख्यमधीतवान् । वन्दनक्षामणालोच प्रतिक्रमणकान्यपि ॥ ५९३ ॥ प्रत्याख्यानानि सर्वाणि तथा गाथाविचारकाः । नित्यं व्यशनमाधत्त पर्वस्वेकाशनं तथा ।। ५९४ ॥ स्नात्राचारप्रकारं चारात्रिकस्याप्यशिक्षत । जैनं विधिं समभ्यस्य चिरभावकवद् बभौ ।। ५९५ ॥ प्राक्कृते चामिपाहारे परमानुशयं गतः । उवाचावाच्यमेतन्मे पातकं स्वभ्रपातकम् ॥ ५९६ ॥ निक्रयोऽस्यांहसो नास्ति पुनरेतद् ब्रवीम्यहम् । अपराधी निगृह्येत राजनीतेरिति स्थितिः ।। ५९७ ॥ दशनान् पातयाम्यद्य मांसाहारापराधिनः । सर्वत्र सहते कर्त्ता दृष्टमित्थं स्मृतावपि ।। ५९८ ।। गुरुराह महाराज ! रूढं स्थूलमिदं वचः । सकृद्देहापदा न स्यान्निः कृतिः कृतकर्मणः ॥ ५९९ ॥ तत आईतधर्मेच्छापवित्रितमना भवान् । प्रवर्त्ततां तथा पङ्कः समस्तः क्षाल्यते यथा ।। ६०० ।। दन्ता द्वात्रिंशतः पाप्ममोक्षाय त्वं विधापय । द्वात्रिंशतं विहाराणां हाराणामिव तेऽवनेः' ।। ६०१ ॥ निजवतुस्त्रिभुवनपालस्य सुकृताय च । मेरुशृङ्गोन्नतं चैत्यं श्रीजैनेन्द्रं विधापय ॥ ६०२ ॥ अथाह मेदिनीपालः सुरीतिरियमुज्ज्वला । भवकान्तारनिस्तार एतदेव च शम्बलम् ।। ६०३ ॥ अथो परमया भक्त्या प्राहिणोत् प्रभुमालये । अपरेद्युश्च संप्राप वाग्भटस्य जिनालयम् ।। ६०४ ॥ तत्रायातस्य भूपस्य ययौ नेपालदेशतः । श्रीबिम्बमेकविंशत्यङ्गुलं चान्द्रमणीमयम् ॥ ६०५ ।। 'प्राभृतेऽप्रावृते तत्र मूर्ते चिन्तामणाविव । सर्वतो व्यकसद् राजा पूर्णमासीनिशीथवत् ॥ ६०६ ॥ ततो मणिमाकार्य प्रसादविशदाननः । कुत्राप्यमात्य ! कार्येऽहमधमर्णो भवामि वः ।। ६०७ ।। इत्याकर्ण्य स च प्राह प्राणाः स्वामिवशा मम । परिच्छदो धनं भूमिरास्था कान्येषु वस्तुषु ।। ६०८ ।। राजाह प्राञ्जलिर्याचे प्रासादो मे प्रदीयताम् । सनाथं करवे मित्र ! यथा प्रतिमयानया ।। ६०९ ॥ महाप्रसादो मे नाथ ! भवत्वेवं धृतिर्मम | श्री कुमार विहारोऽतः परं स्वाम्याख्ययाऽस्तु तत् ॥ ६१० ॥
1 A मनोहरम् । 2 N सकृद्देहापदां स्यान्निः । 3N मनाऽभवत्; B भवन् । 4 N ते वने । 5 D प्रावृते ।
5
10
15
20
25
80