________________
10
२०२ प्रभावकचरिते
546 काङ्कितेन तदाऽजल्पि शामल! त्वमपी किम् । भेदितो वारणं पश्चाद् व्यावर्त्तयसि यत्सखे !॥५५२॥ स प्राह नाथ! नो शंक्यं स्वप्नेऽपि त्रयभेदनम् । निषादी श्यामलः स्वामी गजः कलभकेसरी ॥ ५५३ ॥ पश्चात्क्रमैर्गतो नीचैस्ततः प्रतिगजात् पतन् । शत्रुराज्यस्य सर्वखं ग्राह्यश्चारुभटस्त्वया ॥ ५५४ ॥ यावदेवं वदत्येष तावद्विघटितौ रदौ । अन्तर्द्वयोर्जवात् तत्रापतत् स्वस्वामितेजसा ॥ ५५५॥ . जगृहे तलवर्गीयैः सुभटैः संयतश्च सः। अर्णोराजश्व राज्ञापि कुन्तेन निहतोऽलिके ॥ ५५६ ॥ प्रणाशाभिमुखः कांदिशीकश्चारुभटं विना । व्यावयद् गजं सेनाप्यस्य व्याजुघुटे ततः॥ ५५७।। जितं जितमिति प्रोच्य पटमभ्रमयत् प्रभुः । मन्यमानश्च राजानं स्वं तदा विक्रमोर्जितात् ॥ ५५॥ सामन्ताश्चाययुः सर्वे मंक्षु तं पर्यवारयन् । जितो भवद्भिरेवासावित्यावर्जयदत्र तान् ॥ ५५९॥ देशः कोशश्च लुण्टाकैस्तस्य सेनाप्यलुण्ट्यत । सुलूषणाः सत्त्वहीना युद्धे पृष्ठप्रदायिनः ॥ ५६०॥ ततश्चमुचराः सर्वे तदीयद्रविणैर्घनैः । स्वयं ग्रहणतोऽतृप्यन्नासप्तपुरुषावधि ॥ ५६१ ॥
जितकाशी ततो भूपो न्यवर्त्तत पुरं प्रति । यच्छन् यथार्थनं दानमर्थिभ्यः कल्पवृक्षवत् ॥ ५६२॥ ६१८. अष्टादशशतीदेशप्रख्यपत्तनमासदत् । पूर्ववत् वृत्तमत्युग्रं तदीशस्याप्यबुध्यत'। ५६३ ॥
नृपतिर्विजये सोविदल्लान् मल्लानथादिशत् । ततो निमन्त्रणायातः पश्चाद्वाहुय॑यकमत ॥ ५६४॥ प्रेष्य प्रेष्यान निजांस्तस्य मन्दिरं मन्दुरावरम् । अज्वालयत् क्षणादेव यथाभवदसतसहक'॥५६५॥ फटेऽनास्तुते' क्षिप्तः स्वस्थानाच्चालिताङ्गकः । हुंकारेऽप्यन लंभूष्णुः सोऽभत का वचने कथा ॥
भूत् का वचने कथा ॥ ५६६ ।। नद्युत्तारेषु पाषाणोद्घाटसंकटभूमिषु । अभूदमृग्विलिप्ताक्षः स षटकारस्फुरच्छिराः ॥ ५६७ ॥ परमारान्वयै राजपुत्रैरुत्तार्य भूपतिः । सम्यकपणम्य विज्ञप्तोऽन्वमन्यत तृणास्तृतिम् ॥ ५६८ ॥ मञ्चातिमश्चकलितमुत्तुकदतोरणम् । अणहिल्लपुरं प्राप मापः प्राप्तजयोदयः ॥ ५६९ ॥ महोत्सवे प्रवेशस्य गजारूढः सुरेन्द्रवत् । वाग्भटस्य विहारं स ददृशे दररसायणम् ॥ ५७०॥ तत्र प्रविश्य श्रीमन्तमजितस्वामिनं नृपः । आर्चयत् सुरभिद्रव्यैरत्यासन्नोपकारिणम् ॥ ५७१ ॥ श्रीपार्श्वमथ च स्मृत्वा संपूज्य च ततोऽवदत् । प्रागुक्तं यन्मया नाथ ! तत्तथैवावधार्यताम् ॥ ५७२ ॥ ततः प्रणम्य सोत्कण्ठं कण्ठीरववरासने । पट्टकुञ्जरकुम्भस्थे स्थितोऽगाद् भूभृदालयम् ॥ ५७३ ॥ गोत्रवृद्धाङ्गनावर्गसङ्गीतस्फुटमङ्गलः । प्रतीच्छन् शिरसा वोपनान्यनुबभूव सः ।। ५७४ ॥ ततो विक्रमसिंहस्य स्थाने सन्धीनिवेश्य च । आनाय्यानतिदूरे तं भूपालः प्राह सस्मितः॥ ५७५ ॥ भो विक्रमानियत्रेण भूपाला एव पश्चताम् । प्रायान्ति नैव सामन्ता इति त्वं केन शिक्षितः ॥५७६॥ तत्रैव यद्यहं त्वां भो! वह्नौ होता ततो भवान् । भस्मीभूतः क दृश्येत सपुत्रपशुबान्धवः ॥ ५७७ ।। यादृशाश्च भवन्तः स्युर्गृहकर्मकरा मम । मलिना न वयं नाथास्तादृशास्तदसून वह ॥ ५७८ ॥ अक्षेपि बंदिशालायां ततोऽसौ निजकर्मतः । इह लोके हि भोज्यन्ते राजभिस्तामसास्तमः ॥ ५७९॥ तथा श्रीरामदेवाख्य'तद्धातुनन्दनं नृपः । श्रीयशोधवलं चन्द्रावत्यामेष न्यवीविशत् ॥ ५८० ॥
15
30 ६१९. अन्येधुर्वाग्भटामात्यं धर्मात्यन्तिकवासनः । अपृच्छदार्हताचारोपदेष्टारं गुरुं नृपः ॥ ५८१ ।।
सूरेः श्रीहेमचन्द्रस्य गुणगौरवसौरभम् । आख्यदक्षामविद्यौघमध्यामोपशमश्रियम् ॥ ५८२ ॥ शीघ्रमाहूयतामुक्तो राज्ञा वाग्भटमत्रिणा । राजवेश्मन्यनीयन्त सूरयो बहुमानतः ॥ ५८३ ॥
1 N प्यबुध्य ते। 2 N B सकृत् । 3 N शाकटेनासति । 4 N हुंकारेणान। 5 N समुन्मत्तनृणां स्तुतिम् । 6 N तां भूपालं । 7 N रामदेवाख्यं । 8 N°शमाश्रयम् ।