________________
5
10
15
20
25
30
१९०
प्रभावकचरिते
इद' महिपतिदम्भस्तम्भसंरम्भधीरं
धरणितलमिहैव स्थानमस्मद्विधानाम् ॥ २०९ ॥
इत्युक्त्वाऽथ प्रतीहार' पटास्तृतधरातले । उपाविशद् विशां नाथः प्रमाथो दोषविद्विषाम् ॥ २०२ ॥ पर्षदोऽनुचितः कोऽयमिति हस्तेन दर्शिते । कविराजे नृपोऽवादीदनादीनवगीर्भरः ॥ २०३ ॥ एकाहविहितस्फीतप्रबन्धोऽयं कृतीश्वरः । कविराज इतिख्यातः श्रीपालो नाम मानभूः ॥ २०४ ॥ श्री दुर्लभसरोराजस्तथा रुद्रमहालये । अनिर्वाच्यरसैः काव्यैः प्रशस्तीरकरोदसौ ॥ २०५ ॥ महाप्रबन्धं चक्रे च वैरोचनपराजयम् । विहस्यः सद्भिरन्योऽपि नैवास्य तु किमुच्यते ॥ २०६ ॥ श्रुत्वेति स्मितमाधाय देवबोधकविर्जगौ । काव्यमेकं लसद्भर्वपर्वताधित्यकासमम् ॥ २०७ ॥ तथा हि
शुक्रः कवित्वमापन्नः एकाक्षिविकलोऽपि सन् । चक्षुर्द्वयविहीनस्य युक्ता ते कविराजता ॥ २०८ ॥
अतिशीघ्रे तथा गुम्फे भिन्त्यन्तः पूरणाकृतौ । कोऽभिमानस्ततो धीमनेकमस्मद्वचः शृणु ॥ २०९ ॥
तद्यथा
भ्राग्रमकुविन्द ! कन्दलयता वस्त्राण्यमूनि त्वया गोणीविभ्रमभाजनानि बहुशोऽप्यात्मा किमायास्यते । अप्येकं रुचिरं चिरादभिनवं वासस्तदासूत्र्यते
यन्नोज्झन्ति कुचस्थलात् क्षणमपि क्षोणीभृतां वल्लभाः ॥ २९० ॥ समस्यां दुर्गमां कांचित् पृच्छतेति नृपोदिते । श्रीपाल ऊचिवानेकं स्फुटं शिखरिणीपदम् ॥ २१ ॥
तच
'कुरङ्गः किं भृङ्गो मरकतमणिः किं किमशनि'
तत्पाठपृष्ट एवायमवदत् ' कविनायकः । चरणत्रितयं वृत्ते को विलम्बोऽप्यमूहशि ॥ २१२ ॥
तद्यथा
चिरं चित्तोद्याने चरसि च मुखाब्जं पिबसि च क्षणादेणाक्षीणां विषयविषमुद्रां हरसि च ।
नृप । त्वं मानाद्रि दलयसि च किं कौतुककरः
कुरङ्गः किं भृङ्गो मरकतमणिः किं किमशनिः ॥ २१३ ॥
534
गृहाण चैकं मत्पार्श्वे किंशब्दं व्यवहारतः । दौस्थ्यं यत्र भवेद् यस्याधमर्णो न स तत्र किम् ॥ २१४ ॥ निगद्यन्ते समस्याश्चामूदृश्यो विषमार्थकाः । एकपादा द्विपादा च त्रिपदी च बुधोचिता ॥ २१५ ॥ किंशब्दबहलास्त्वेताः शून्यप्रश्ननिभा नृप ! । सहक्षा भणितेरस्य निन्द्या संसदि धीमताम् ॥ २१६ ॥
तथा हि
(१) पौत्रः सोपि पितामहः ।
(२) सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
1 N इह हि । 2 N इत्युक्त्वा च । 8AD प्रतीहारः । 4 N एकोहं विहित° । 5 N भूमिभूः । 6 N कविगलिता । 7 N एवासाववदत् । 8BN निंया कोविदसम्पदा ।