________________
523
२१. वादिदेवसूरिचरितम् ।
नारीणां विदधाति निर्वृतिपदं श्वेताम्बरप्रोल्लसत्कीर्तिस्फीतिमनोहरं नयपथप्रस्तार भङ्गीगृहम् । यस्मिन् केवलिनो विनिर्जितपरोत्सेकाः सदा दन्तिनो राज्यं तज्जिनशासनं च भवतश्चौलुक्य ! जीयाच्चिरम् ॥ २०७ ॥ ऊचे कुमुदचन्द्रेण वादिना सिद्धभूपतेः । आशीरासीमभूमीशविद्वद्विजयशोभिनः ॥ २०८ ॥ सा चेयं
१७९
5
खद्योतद्युतिमातनोति सविता जीर्णोर्णनाभालयच्छायामाश्रयते शशी मशकतामायान्ति यत्राद्रयः । इत्थं वर्णयतो नभस्तव यशो जातं स्मृतेर्गोचरं
तद्यत्र भ्रमरायते नरपते ! वाचस्ततो मुद्रिताः ॥ २०९ ॥ तस्मिन् महर्षिरुत्साहः सागरश्च कलानिधिः । प्रज्ञाभिरामो रामश्च नृपस्यैते सभासदः । २१० ॥ ते प्रोचुर्मुद्रिता वाच इति दिग्वाससः क्षतिः । नारीमुक्तिर्ज्ञानिभुक्तिर्यत्र तत्र जयो ध्रुवः ॥ २११ ॥ देवाचार्यश्व भाव' श्रीपालश्च महाकविः । पक्षे दैगंबरे तत्र केशवत्रितयं मतम् ॥ २१२ ॥ . तत्रोत्साहो महोत्साह उवाच प्रकटाक्षरम् । किंचिदुत्प्रासनागर्भ दृष्ट्वा दिग्वखपार्षदान् ॥ २१३ ॥ तथा हिसंवृतावयवमस्तदूषणं साधनं सदसि दर्शयिष्यतः ।
20
अस्य लुञ्चितकचस्य केवलं केशवत्रितयमेति सभ्यताम् ॥ २९४ ॥ महर्षिणा च विज्ञप्ते उपलक्ष्य प्रभुस्ततः । प्रयोग उच्यतां सम्यगादिदेशेति कौतुकात् ॥ २१५ ॥ ततोऽसौ नास्ति निर्वाणं, स्त्रीभवस्थस्य देहिनः । तुच्छसस्वतया तस्य, यस्तुच्छो मुक्तिरस्य न ॥ २१६ ॥ अत्रोदाहरणं बालः पुमान् तुच्छोऽबलाभवः । अतो न निर्वृतिस्तत्र प्रयोगममुमाह सः ॥ २१७ ॥ देवसूरिरथाह स्मासिद्धं धर्मिविशेषणम् । स्त्रीभवे निर्वृतिं प्राप मरुदेवाऽऽगमे मतम् ॥ २१८ ॥ तवाप्रसिद्धमेतचेदनेकान्तं ततः पठ । तस्य मार्गमतिक्रम्य दुर्नयो ह्यवधारणम् ॥ २१९ ॥ तथा हेतुश्च ते दूष्योऽनैकान्तिकतया मतः । स्त्रियोऽपि यन्महासत्त्वाः प्रत्यक्षागमवीक्षिताः ॥ २२० ॥ सीताद्या आगमेऽध्यक्षं पुनः साक्षान्महीपतेः । माता श्रीमयणल्लाख्या सत्त्वधर्मैकशेवधिः ॥ २२१ ॥ तथा व्याप्तिरलीकेयं प्रतिव्याप्ते प्रढौकनात् । याः स्त्रियस्ता' ध्रुवं तुच्छा नैतत् तत्सत्त्वदर्शनात् ॥ २२२ ॥ 25 तथा तद्दर्शनात् तत्रोदाहृतिश्चापि दूषिता । बालं पुंसामभिज्ञानादतिमुक्तकसाधुवत् ॥ २२३ ॥ तथास्योपनयोऽसिद्धः प्राकू सिद्धान्तात् सदूषणात् । ततो निगमनं दूष्यं प्रत्यनुमानसम्भवात् ॥ २२४ ॥ अनूद्य दूषयित्वैवं परपक्षमथ स्वकम् । पक्षं देवगुरुः प्राह श्रीभवेष्वथ निर्वृतिः ॥ २२५ ॥ प्राणिनः सत्त्ववैशिष्ट्यात् स्त्रियः सत्त्वाधिका मया । दृष्टाः कुन्ती-सुभद्राद्या अथोदाहृतिरागमे ॥ २२६ ॥ महासत्त्वाः स्त्रियः सन्ति मोक्षं गच्छन्ति निश्चितम् । इत्युक्त्वा विरते देवगुरावाशाम्बरोऽवदत् ॥ २२७॥ 30 पुनः पठततोऽवाचि तत्राप्यनवधारिते । त्रिरप्याह कृते नैवमबुद्धा तमदूषयत् ॥ २२८ ॥ प्रतिवाद्याह वाच्यस्यामबोधः प्रकटोत्तरम् । दिग्वासाः प्राह जल्पोऽयं कटित्रे लिख्यतामिह ॥ २२९ ॥ महर्षिः प्राह संपूर्णा वादमुद्राऽत्र' दृश्यते । दिगम्बरो जितः श्वेताम्बरो विजयमाप च ।। २३० ॥ SN सतः । 4 N स्त्रियाना । 5 N°मुद्रा च ।
1 N ज्ञानिमुक्ति । 2 N भानुश्व; A लाभूख ।
10
15