________________
517
२१. वादिदेवसूरिचरितम् ।
तथा हि
एकद्वित्रिचतुः पंचषण्मेनकमने न काः । देवबोधे मयि क्रुद्धे षण मेनकमनेनकाः ॥ ६३ ॥
ततः सर्वेऽपि विद्वांस एनमालोक्य सूर्यवत् । दृशो विपरियन्ति स्म दुर्बोधं सुधियामपि ॥ ६४ ॥ षण्मासान्ते तदा चाम्बाप्रसादो भूपतेः पुरः । देवसूरिप्रभुं विज्ञराजं दर्शयति स्म च ।। ६५ ।। स भूपालपुर: लोकं बिभेदोद्भेदधीनिधिः । कुलत्थजलवद्गण्डशैलं राज्ञा मतः सुहृत् ॥ ६६ ॥
१७३
5
अथास्य श्लोकस्य विवरणं- कै गै रै शब्दे । कायन्तीति क्वचित् डप्रत्यये काः शब्देन वादिनः । ते षट्काः । सन्तीति क्रियाध्याहारे, षड्वादिनो न सन्ति । व सति देवबोधे मयि क्रुद्धे सति । पुनः कथंभूते - एकद्वित्रिचतुःपंचषण्मेनकमने । मांक माने, मानं माः किपू प्रमाणं । एकं प्रमाणं प्रत्यक्षरूपं येषां ते एकमाः, चार्वाकाः, एकप्रमाणवादिनः । तथा द्विमाः द्वे प्रमाणे प्रत्यक्षानुमानरूपे येषां ते द्विमाः, द्विप्रमाणवादिनो बौद्धाः वैशे- 10 षिकाश्च । तथा त्रिमाः - त्रीणि प्रमाणानि प्रत्यक्षानुमानागमरूपाणि येषां ते त्रिमाः, त्रिप्रमाणवादिनः सांख्याः । चत्वारि प्रत्यक्षानुमानागमोपमान रूपाणि प्रमाणानि येषां ते चतुर्माः, चतुःप्रमाणवादिनो नैयायिकाः । तथा पंचमा:- पंच प्रत्यक्षानुमानागमोपमानार्थापत्तिरूपाणि प्रमाणानि येषां ते पंचमाः, पंचप्रमाणवादिनः प्राभाकराः । तथा षण्माः षट् प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावरूपाणि प्रमाणानि येषां ते षण्माः, षट्प्रमाणवादिनो मीमांसकाः । तेषामिनास्तद्वेत्तृत्वात् तान् कमते अभिलषति, स एकद्वित्रिचतुः पंचपण्मेनकमनः, 15 तस्मिन्मयि । तथा मेनकमनेनका अपि न काः न वादिनः । मा लक्ष्मीः, तस्या इनः स्वामी विष्णुः; कमनो ब्रह्मा; इन आदित्यः मेनकमनेनाः । अल्पत्वात्कप्रत्यये मेनकमनेनकाः । तेऽपि विष्णु-ब्रह्म-सूर्या मयि देवबोधे क्रुद्धे सति अज्ञानत्वान्नकाः न वादिनः । यतो- देवान् बोधयति इति शब्दव्युत्पत्या तेऽपि मया बोधिताः सुशाना भवन्ति । ततो मानुषाणां पटुवादिनां विदुषामपि किं प्रमाणं का वार्ता ॥ इति पत्रावलंबव्याख्या ॥ ग्रं० १६ ॥
*
६६. अथास्ति 'थाहडो नाम धनवान् धार्मिकामणीः । गुरुपादान् प्रणम्याथ चक्रे विज्ञापनामसौ ॥६७॥ 20 आदिश्यतामतिश्लाध्यं कृत्यं यत्र धनं व्यये । प्रभुराहालये जैने द्रव्यस्य सफलो व्ययः ॥ ६८ ॥ आदेशानन्तरं तेनाकार्यत श्रीजिनालयः । हेमाद्रिधवलस्तुको दीप्यत्कुम्भमहामणिः ॥ ६९ ॥ श्रीमतो वर्द्धमानस्याबीभरद् बिम्बमद्भुतम् । यत्तेजसा जिताश्चन्द्रसूर्यकान्तमणिप्रभाः ।। ७० ।। शतैकादशके साष्टासप्ततौ विक्रमार्कतः । वत्सराणां व्यतिक्रान्ते श्रीमुनिचन्द्रसूरयः ॥ ७१ ॥ आराधनाविधिश्रेष्ठं कृत्वा प्रायोपवेशनम् । शमपीयूषकल्लोलप्लुतास्ते' त्रिदिवं ययुः ॥ ७२ ॥ युग्मम् । वत्सरे तत्र चैकत्र पूर्णे श्रीदेवसूरिभिः । श्रीवीरस्य प्रतिष्ठां स थाहडोऽकारयन्मुदा ॥ ७३ ॥ ६७. अथ नागपुरे श्रीमान् देवसूरिप्रभुर्ययौ । अभ्यागादत्र च श्रीमानाह्लादननरेश्वरः ॥ ७४ ॥ प्रणनाम सहायातः स च भागवतेश्वरः । देवबोध इमामार्यामार्या चारोऽवदत् प्रभुम् ॥ ७५ ॥
25
सा चेयं
यो वादिनो द्विजिह्वान् साटोपं विषममानमुद्गिरतः । शमयति स देवसूरिर्नरेन्द्रवन्द्यः कथं न स्यात् ॥ ७६ ॥
एवं चासौ महाभक्त्या स्थापितो नगरान्तरा । राज्ञा विज्ञाततत्त्वार्थो भव्यान् बोधयति स्म सः ॥ ७७ ॥ तच श्रीसिद्धराजोऽथ नगरं रुरुचेतराम् । तत्रस्थं देवसूरिं च ज्ञात्वा व्याववृते ततः ॥ ७८ ॥ मध्यस्थितेऽत्र तन्मित्रे दुर्गं लातुं न शक्यते । इति ध्यात्वाऽऽह्वयद् भक्त्या नृपः श्रीपत्तने प्रभुम् ॥७९॥
1 N बाइको । 2 N°gतोऽसौ । 3N ययौ । 4 N तदायातः; B तदायात ; D सदायातः । 5 B प्रभोः; D प्रभुः ।
30