________________
१०२
प्रभावकचरिते
516
10
15
व्यवसाये क्षमः कीदृक्षेऽपि नाहं जनन्यपि । अस्य नश्यत्तनुस्थेमाऽनन्यसुस्तद् वदामि किम् ॥३१॥ अत्र चेत् पूज्यपादानामाग्रहस्तन्मया नहि । विचारणं हि कर्तव्यं गृह्यतामेष नन्दनः ॥३२॥-विशेषकम् । प्रभुराहाथ मे पश्चशती चारित्रिणां गणे । सर्वेऽपि ते सुताः सन्तु तवैकस्मादतः प्रति ॥ ३३ ॥ अमी साधर्मिका यावज्जीवं कशिपुदास्तव । धर्म घेयास्त्र निश्चिन्तः परलोकैकशम्बलम् ॥ ३४ ॥
तदम्बां च यथादेशकारिणीमनुमान्य च । पूर्णचन्द्रं दृढाभक्तिं प्रभवः समदीक्षयन् ॥ ३५ ॥ ६२. रामचन्द्राभिधां तस्य' ददुरानन्दुनाकृतेः । दर्शनोल्लासिनः सङ्घसिन्धुवृद्धिविधायिनः ॥ ३६॥
दुईयत्वकलंकस्यापनोदादुपकारिणीम् । यत्प्रज्ञा दुर्गशास्त्राणामपि वाग्गोचरः स किम् ॥ ३७ ॥ तर्क-लक्षण-साहित्यविद्यापारगतः स च । अभूत् स्वपरसिद्धान्ते वर्तमाने कषोपलः ॥ ३८ ॥ शिवाद्वैतं वदन् धन्धः पुरे धवलके द्विजः । काश्मीरःसागरो जिग्ये वादात् सत्यपुरे पुरे ॥३९॥ तथा नागपुरे क्षुण्णो गुणचन्द्रो दिगंबरः। चित्रकटे भागवतः शिवभत्याख्यया पुनः॥४०॥ गंगाधरो गोपगिरौ धारायां धरणीधरः । पद्माकरो द्विजः पुष्करिण्यां वादमदोद्धरः ।।४१॥ जितश्च श्रीभृगुक्षेत्रे कृष्णाख्यो ब्राह्मणाप्रणीः । एवं वादजयोन्मुद्रो रामचन्द्रः क्षितावभूत् ॥ ४२ ।। विद्वान् विमलचन्द्रोऽथ हरिचन्द्रः प्रभानिधिः । सोमचन्द्रः पार्श्वचन्द्रो विबुधः कुलभूषणः ॥ प्राज्ञः शान्तिस्तथाऽशोकचन्द्रश्चन्द्रोल्लसद्यशाः । अजायन्त सखायोऽस्य मेरोरिव कुलाचलाः॥४४॥. ततो योग्यं परिज्ञाय रामचन्द्रं मनीषिणम् । प्रत्यष्टिपन पदे दत्तदेवमूरिवराभिधम् ॥ ४५ ॥ पितुस्तस्य व्रतं वीरनागाख्यस्य स्वसुः पुनः । पुरात्तव्रतमुद्राया अमुद्राया महावतैः ॥ ४६ ।।
महत्तराप्रतिष्ठां च व्यधुर्विधुरितांहसः । श्रीमचन्दनबालेति नामास्याः प्रददुर्मुदा ॥ ४७ ॥-युग्मम् । ६३. अन्यदा गुर्वनुज्ञाताः श्रीमन्तो देवसूरयः । विहारमादधुः पूज्याः पुरे धवलकाभिधे ॥४८॥
उदयो नाम तत्रास्ति विदितो धार्मिकाप्रणीः । श्रीमत्सीमंधरस्वामिबिम्बं सैष व्यधापयत् ॥ ४९॥ स प्रतिष्ठाविधौ तस्यानिश्चिन्वन् सद्गुरुं ततः। श्रीमच्छासनदेवीं चाराध्नोत् व्यहमुपोषितः ॥५०॥ . युगप्रधानकल्पेन श्रीमता देवसूरिणा । प्रतिष्ठापय बिम्ब स्वमित्युपादिशताथ सा ॥ ५१ ।।
तत्तदर्थनया बिंबप्रतिष्ठां विधुस्तदा । ऊदा व स ति नाम्ना तच्चैत्यमद्यापि विद्यते ॥ ५२ ॥ ६४. अथ नागपुरेऽन्येद्युः प्रभवो विजिहीर्षवः । गिरीन्द्रमदं प्रापुरुत्का आरुरुहुश्च तम् ॥ ५३ ॥
मत्रिणोऽम्बप्रसादस्य गिरिमारोहतः सह । गुरुभिः कर्मवैचित्र्याद् दन्दशूकोऽदशत् पदे ॥ ५४॥ ज्ञात्वा ते प्रेपयंस्तस्य हेतुं पादोदकं तदा । धौतमात्रे तदा तेन दंशोऽसौ निर्विषोऽभवत् ॥ ५५ ॥ श्रीनाभेयं नमस्कृत्य संसारार्णवतारणम् । तुष्टुवुः श्रीमदम्बां च प्रत्यक्षा शासनेश्वरीम् ॥५६॥ साऽवादीत् कथयिष्यामि किंचित्ते बहुमानतः । दूरे सपादलक्षे त्वं मा यासीन्मम वाक्यतः ।। ५७ ॥ गुरुस्तवाष्टमासायुरस्मादेव दिनाद् यतः । व्यावर्त्तख ततो वेगादणहिल्लपुरं प्रति ॥ ५८ ॥ इत्याख्याय तिरोधाच देवी दध्यौ ततः प्रभुः । मम्यम्बाया इवाम्बाया वत्सलत्वमहो महत् ॥ ५९ ॥
व्यावृत्यायात् ततः पूज्यपुर आख्यत् सुरीवचः । आनन्दमसमं प्रापुस्ते कालज्ञानतो निजात ॥ ६ ॥ ६५. अन्यदा देवबोधाख्यः श्रीभागवतदर्शनी । भूरिवादजयोन्मुद्रः श्रीमत्पत्तनमाययौ ॥ ६१ ।।
अवालम्बत' पत्रं च राजद्वारे मदोबुरः । वत्र लोकं दुरालोकं विबुधैरलिखञ्च सः ॥ १२ ॥
30
1D यस्य । 2 AD कृते । 3A दुर्जेयखN दुर्नेयल। 40 प्राजा1 5N बंधः। 6N अवलंबन'।