________________
515
१७१
२१. वादिदेवरिपरितम् । २१. श्रीवादिदेवसूरिचरितम् ।
श्रीदेवसूरिर्वः पातु य आक्रम्य दिगम्बरम् । कीर्तेरपि स्त्रियः सिद्धमूलधिष्ण्य मतिष्ठिपत् ॥ १॥ देवाचार्यः श्रिये भूयात् केवलज्ञानशालिनाम् । विमोच्याभोजनं येनाव्युच्छित्तिः शासने कृता ॥२॥ जीवितानादिराजीवममध्यमहितोदयम । अनन्तविपरद्रोह वदनं सस्य संस्तमः॥३॥
भ्रान्तिसंवर्तकभ्रान्तिदुर्वृत्तरजसः शमे । अवारवारिबाहमि तवृत्तं परिकीर्यते ॥४॥ ६१. अस्ति गूर्जरदेशस्य नवनीतमिवोद्धृतम् । अष्टादशशतीनाम मण्डलं स्वर्गखण्डलम् ॥ ५॥
तत्र मड्डाहृतं नाम नगरं नगराजिभिः । ध्वान्तस्येव महादुर्गमगम्यं सूर्यरोचिषाम् ॥ ६ ॥ सद्वृत्तोज्जीवनच्छायो राजमानः स्वतेजसा । प्राग्वाटवंशमुक्तासीद् वीरनागाभिधो गृही ॥ ७ ॥ तत्प्रिया सक्रियाधारा प्रियंकरगुणावनिः । जिनदेवीति देवीव मेना हिमवतो बभौ ॥ ८॥ अन्यदा सा निशि स्वप्ने पीयूषरुचिमैक्षत । प्रविशन्तं मुखे पृथ्व्यामवतारेच्छया किल ॥९॥ अन्वये गुरवस्तस्य श्रीमुनिचन्द्रसूरयः । सन्ति शान्तिकमत्रान्ते येषां नामाक्षराण्यपि ॥ १०॥ प्रातः सा तत्पुरो' गत्वा नत्वा सत्त्वमहालया। अपृच्छन्मुदिताचार्य(०१) स्वप्नस्यातिशयस्पृशः॥११॥ देवश्चन्द्रनिभः कोऽप्यवततार तवोदरे । आनन्दयिष्यते विश्वं येन ते चेत्थमादिशन् ॥ १२ ॥ अथ सा समयेऽसूत सुतं वनोपमद्युतिम् । यत्तेजसा कलि: शैलश्चकम्पे भेदभीतितः॥ १३ ॥ हृदयानन्दने तत्र वर्धमाने च नन्दने । चन्द्रस्वप्नात् पूर्णचन्द्र इत्याख्यां तत्पिता व्यधात् ॥ १४॥ 15 कदाचिनगरे तत्राशिवं जज्ञे जनान्तकृत् । सहसैव यतो लोकः प्रेक्ष्याप्रेक्ष्यत्वमादधौ ॥ १५ ॥ वीरनागो विचिन्त्यैतद् दक्षिणां दिशमाश्रयत् । भृगुकच्छपुरं प्राप लाटदेशविभूषणम् ॥ १६॥ विहार जंगम तीर्थ श्रीमुनिचन्द्रसरयः । चक्रस्तत्र तदादेशात् स्थापितोऽसौ सधर्मिभिः ॥१७॥ वर्षाष्टकवयाः पूर्णचन्द्र इत्यस्य नन्दनः । चक्रे 'सुखासिकादीनां वाणिज्यं शैशवोचितम् ॥ १८ ॥ वित्त नौवित्तहर्येषु विकाशिचणकैः समाः । द्राक्षा अवापदर्भत्वेऽपि हि पुण्यानि जाप्रति ॥ १९॥ 20 कस्मिंश्चित्सदनेऽन्येधुर्गतो व्यञ्जनविक्रये । द्रम्मान हेमच गेहेशं पिटैरुज्झन्तमैक्षत ॥ २०॥ भवाभाग्याद् घटश्लक्ष्णकर्कराङ्गाररूपतः । पश्यति स ततः पूर्णचन्द्रः प्राहातिविस्मितः ॥ २१ ॥ किमुज्झसि महाद्रव्यं नरसञ्जीवनौषधम् । इत्युक्ते स गृही दध्यौ चित्तेऽहो पुण्यवानसौ ॥ २२ ।। वत्स ! द्रव्यमिदं वंशपात्रे क्षित्वा ममार्पय । इत्युक्त' पूरयित्वाऽसौ पात्राण्यस्यार्पयत् तदा ॥ २३ ॥ तत्करस्पर्शमाहात्म्यात् तद् द्रव्यं पश्यति स्म सः । अपुण्य-पुण्ययोः साक्षादीदृशं दृश्यतेऽन्तरम् ॥ २४ ॥25 सोऽन्तर्गेहं क्षिपत्येवं सर्व निहितमन्तरा । एका सुखादिकाहेतोः प्रसूतिस्तेन चाlत ॥ २५ ॥ हृष्टश्च पितुराख्याय ददौ तद् द्रविणं मुदा । वीरनागः प्रभूणां च यथावृत्तमदोऽवदत् ॥ २६ ॥ व्यमृशंस्तेऽप्यवातार्षीत् " किमेष पुरुषोत्तमः । दर्शयन्ती स्वरूपाणि लक्ष्मीर्यस्याभिलाषुका ॥ २७ ॥ रङ्गत्कुमुदचन्द्रांशुप्रसराच्छादकोदयः । विरोचनो विनेयश्चेदेषानन्तोन्नतिस्तदा ॥ २८॥ ततस्तेऽप्यवदन् वाचं शृणु नस्तव यद्वरम् । वस्तु सम्पद्यते कस्य भक्त्या तत् प्रतिपद्यते ॥ २९॥ 80 स प्राह नाथ ! पूज्यानां कुले नो गुरुताभृताम् । अहं त्वेकसुतो जीर्णस्तदास्था मेऽत्र जीवितुम् ॥ ३०॥
1N मूलविद्या । 20 प्रियो। 3 N तत्पुरे। 4 B सुखादिका। 5 D चित्त; N चिंतनौचित्यह। 6 N D तवा । 7N इत्युक्खा। 8N चार्थिता । 9 विधेह्याख्याय । 10 Asप्याथाता।