________________
१५४
प्रभावकचरिते
498
४. अथ ज्येष्ठप्रभुः प्राह सर्वेषां गुणसंहतिः । कोट्यंशेनापि नास्त्यत्र को मदस्तद्गुणेषु भो। ॥ ५७॥ इत्याकर्ण्य ततः सूराचार्यः प्राज्यमतिस्थितिः । प्राह नाहंकृतोऽहं को गर्वोऽनतिशयस्य मे ।। ५८॥ अभिसन्धिर्ममायं तु चेन्मया पाठिता अमी। विहृत्य' परदेशेषु जायन्ते वादि जित्वराः॥ ५९॥ पूज्यानां किरणा भूत्वा जनजाड्यहृतौ ननु । युष्माकं सोऽपि शृङ्गार उन्नतिर्जिनशासने ॥६० ।। गुरवः प्राहुरुत्तानमते बालेषु का कथा । किमागच्छसि लमस्त्वं कृतभोजसभालयः ॥ ६१ ॥ श्रुत्वेत्याह स चादेशः प्रमाणं प्रभुसंमितः । आदास्ये विकृतीः सर्वाः कृत्वादेशममुं प्रभोः॥ १२॥ इत्युक्त्वा निजसंस्तारेऽक्षिपत् शेषक्षणं ततः । सामर्षः सूरिशार्दूलः शार्दूल: शस्तफालवत् ।। ६३ ॥ प्रातः कृत्वाऽन्ववादी सोऽध्यायोऽद्यास्तु पाठने । शिशुत्याजहषुः शिष्या महोत्सव इवागते ॥६४ ! मध्याढे शुद्धमाहारमानीय यतिमण्डले । मिलिते सूरसारि तमालाययत सद्गुरुः ॥ ६५ ॥ आययौ परिवेष्टे स गृहाति विकृति नहि । अनुनीतोऽपि गीतार्थैः पूज्यैरप्युदिते दृढम् ।। ६६ ॥ अमुञ्चन्नाग्रहं सद्धेनाप्युक्ते इदमभ्यधात् । मम प्रतिश्रवो हन्ताऽनाश्रवो मोच्यतां पुनः ॥ ६७ ।। भणिष्यथाथ चेत् किश्चित्तन्ममानशनं ध्रुवम् । ततः संवाहयामासे गीतार्थैः सह साधुभिः ॥ ६८ ॥ तत उत्सङ्गमारोप्य शिशिक्षे तैरसौ सुधीः । परदेशे विहर्ता त्वं वत्स ! भूयात् सचेतनः ॥ ६९ ॥
शास्त्रं वंशो जातिः प्रज्ञा कुलमनणुसंयमाः सन्ति ।
जयिनश्च यमा नियमास्तथापि यौवनमविश्वास्यम् ॥ ७० ॥ इति पूज्योपदेशश्रीशृङ्गारैः स तरङ्गितः । मानयन् स्वान्यदेशीयलब्धवर्णास्तपस्विनः ।। ७१ ॥ ततः श्रीभीमभूपालपृच्छायै राजसंसदम् । संप्राप गुर्वनुज्ञातो राज्ञां ज्ञातः पुरापि यः ॥ ७२ ॥ सुवर्णमणिमाणिक्यमये पीठे च भूपतिः । न्यवेशयद् बुधं बन्धुं हेमान्यत् सौरभाद्भुतम् ॥ ७३ ।। तदा च मालवाधीशविशिष्टाः पुनराययुः । स्वरूपं निजनाथस्य भूपालाय व्यजिज्ञपन् ॥ ७४ ॥ देव ! त्वद्विदुषां प्रज्ञाप्रातिभै रञ्जितो नृपः । श्रीभोजः सम्यगुत्कण्ठां तेषु धारयते प्रभुः ॥ ७५॥ ततः प्रहिणुत प्रेक्षादक्षनाथ ! प्रसद्य तत् । अन्योन्यं कौतुकं विद्वद्भूभृतां विद्यते यथा ॥ ७६॥ - राजा प्राह महाविद्वानास्ते मदान्धवो नवः । परदेशे कथं नाम प्रस्थाप्योऽसौ स्वजीववत् ।। ७७ ॥ प्रतिपत्तिं ममेवास्य चेद्विधत्ते भवत्पतिः । प्रवेशादिषु मानं च स्वयं दत्ते तदस्तु तत् ॥ ७८॥ सूराचार्योऽपि ध्यौ च तोषाद् भाग्यमिहोदितम् । मम पूज्यप्रसादेन यत् तस्याह्वानमागमत् ॥ ७९ ।। अथाह भूपते' धाराधिनाथकृतिनां मया । गाथया' कविता दृष्टा तत्रोत्तरमदामहम् ।। ८०॥ शमिनां कौतुकं नः किं विचित्रे जगति ध्रुवे" । श्रीमद्भोजस्य चित्रार्थ गम्यते "त्वदनुज्ञया ॥ ८१ ॥ राजाह तत्र मद्धाता त्वं किं तं वर्णयिष्यसि । स प्राहाहं मुनिभूपं कुतो हेतौ" स्तुवे ततः ॥ ८२ ।। ऊरीकृते प्रधानैश्च तत्र मालवभूपतेः । प्रयाणायानुजज्ञे तं विज्ञेशं भीमभूपतिः ॥ ८३ ॥ . गजमेकं ततः प्रेषीत् सप्तीनां शतपञ्चकम् । पदातीनां सहस्रं च स बन्धौ भक्तिनिर्भरः ॥ ८४॥ शुभे मुहूर्ते नक्षत्र-वार-प्रहबलान्विते । चरे लने प्रहे रे तत्रस्थे शुभवीक्षिते ॥ ८५ ॥ गुरुसङ्घाभ्यनुज्ञातो बहिः प्रस्थानमावनोत् । पञ्चमेऽह्नि प्रयाणं च चक्रे चक्रेश्वराकृतिः ।। ८६ ॥-युग्मम् । ततः प्रयाणकस्तोकमेवासौ गूर्जरावनेः । सन्धिक्षोणिमवापाथ" ससज्ज स च सज्जयः ॥ ८७ ॥ धाराधिरूढप्रज्ञाभूर्धारापुरमवाप्तवान् । प्रधानैश्च प्रतिज्ञातं ज्ञापितः स्वप्रभुस्ततः ॥ ८८ ॥
ततः सर्वर्द्धिसामठ्या सैन्यमान्यमदैन्यभूः । अवन्तिनायकः सज्जयित्वा"ऽस्याभिमुखोऽचलत् ॥ ८९ ॥ IN व्यहत्य । 20 हृतो। 8N सेक्षणं । 4D सूरिसूरि 1 5 Nच। 6 N हेमात्य) 7A भूपते धराधिनायः । 8 N कृतिना। 9N गाथाया । 10 N ध्रुवम् । 11N तदनु। 12N हेतोः। 13 N 'मवाप्याथ । 14 N सबयिता।