________________
489
१७. महेन्द्रसूरिचरितम् । द्वापंचाशत्पले 'फाले 'शुध्येञ्चेन्मम मानुषम् । अत्रेदशाक्षराण्येवावश्यमीहक् प्रतिश्रवे ॥१८३ ॥ कौतुकादथ भूपालस्तत्तथैव व्यधापयत् । राजमित्रं ततः फाले शुद्धः शुद्धयशोनिधिः ॥ १८४ ॥ प्रतीत एव राजात्र सये को नाम मत्सरी । अथान्येयुरपृच्छत् तं सुधीशं भोजभूपतिः॥ १८५॥ जैना जलाश्रयद्वारं सुकृतं किं न मन्वते । ततोऽवदत् स तत्रापि सूनृतं सूनृतव्रतः॥ १८६॥ तथा हि
5 सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा यथेच्छं
विच्छिन्नाशेषतृष्णाः प्रहसितमनसा प्राणिसार्था भवन्ति । शोषं नीते जलौघे दिनकरकिरणैर्यान्यनन्ता विनाशं
. तेनोदासीनभावं भजति यतिजनः कूपवमादिकार्ये ॥ १८७॥ राजाह सत्यमेवेदं धर्मः सत्यो जिनाश्रयः । व्यवहारस्थितानां तु रुच्यो नैव कथंचन ॥ १८८॥ 10 ततो राजसखा प्राह पित्राहमपि पाठितः । किंचिज्ज्ञात्वा मयाधायि का कथा त्वबुधे जने ॥ १८९॥
__ यतःत्याज्या हिंसा नरकपदवी नानृतं भाषणीयं
स्तेयं हेयं विषयविरतिः सर्वसङ्गानिवृत्तिः। जैनो धर्मों यदि न रुचितः पापपङ्काकृतेभ्य
___15 स्तत्कि न्यूनो घृतमवमतं किं प्रमेह्यत्ति नो चेत् ॥ १९० ॥ ६५. धनपालस्ततः सप्तक्षेत्र्यां वित्तं व्ययेत् सुधीः । आदौ तेषां पुनश्चैत्यं संसारोत्तारकारणम् ॥ १९१ ॥
विमृश्येति प्रभो भिसूनोः प्रासादमातनोत् । बिम्बस्यात्र प्रतिष्ठां च श्रीमहेन्द्रप्रभुर्दधौ ॥ १९२ ॥ सर्वज्ञपुरतस्तत्रोपविश्य स्तुतिमादधे । 'ज य जंतु क प्पे'त्यादि गाथापंचशता मिताम् ॥ १९३ ॥ एकदा नृपतिः स्मार्त्तकथाविस्तरनिस्तुषः । वयस्यमवदजनकथा श्रावय कामपि ॥ १९४॥ 20 द्वादशाथ सहस्राणि ग्रन्थमानेन तां ततः। परिपूर्य ततो विद्वत्समूहैरवधारिताम् ॥ १९५॥ यथार्था काचदोषस्योद्धारात् तिलकमञ्जरीम् । रसेन कवितारूपचक्षु३र्मल्यदायिनीम् ॥ १९६ ॥ विद्वज्जनास्यकर्पूरपूराभां वर्णसम्भृताम् । सुधीविरचयांचक्रे कथा नवरसप्रथाम् ।। १९७॥-त्रिभिर्विशेषकम् । रसा नव परां कोटिं प्रापिताः कविचक्रिणा । कथायां तत्समाप्तौ च तद्ध्याने परिवर्तते ॥ १९८॥ स्वयध्यानामिवामीषां प्रस्तावं ते दधुर्भुवम् । रसानां स तंतः षण्णामास्वादमबुधद् बुधः ॥ १९९ ॥ 25 दुहित्रा च ततः पृष्टं तात! प्रन्थः समापि किम् । अहो सो पितृध्याने सुताज्ञाने च चित्रकृत् ॥२०॥ अथासौ गूर्जराधीश कोविदेशशिरोमणिः । वा दि वे ताल विशदं श्रीशान्त्याचार्यमाह्वयत् ॥ २०१ ॥
अशोधयदिमां चासावुत्सूत्रादिप्ररूपणात् । शब्दसाहित्यदोषास्तु सिद्धसारस्वतेषु किम् ॥ २०२ ॥ ६६. तस्यां व्याख्यायमानायां स्थालं हैमममोचयत् । भूपालः पुस्तकस्याधो रससङ्ग्रहहेतवे ॥ २०३ ॥ तत्र तद्रसपीयूषं पूर्वमाहृतवान् नृपः । आधिव्याधिसमुच्छेदहेतुमक्षयतृप्तिदम् ॥ २०४।
30 सम्पूर्णायां च तस्यां स प्राह पृच्छामि किंचन । तथा त्यामर्थये किश्चिच्चेन्न धारयसे" रुषम् ।। २०५॥
1A स्फाले। 2A शुद्धत मम; N B शुद्ध चेन्मम । 3A मानसम् । 4D N राजा मित्रं । 5 NA मन्यते । 6 A D जनाश्रयः। * “सपिर्दुष्टं तत् किमियता यत् प्रमेही न भुक्ते।' इति B आदर्श पृष्ठपार्श्वभागे पाठमेदो लिखितो लभ्यते। 7 N.मिमाम् । 8 A गूर्जराधीशः। 9 N °सूत्राणां । 10 N °माहूतवान् । 11 N किंच तेन धारय मे।
प्र. १९