________________
5
10
15
20
25
30
१४६
प्रभावकचरिते
पूर्वमेव कथारम्भे शिवः पात्वित्यमङ्गलम् । चतुःस्थानपरावर्त्तं तथा कुरु च' मद्गिरा ॥ २०६ ॥ धारासन्ज्ञामयोध्यायां महाकालस्य नाम च । स्थाने शक्रावतारस्य शङ्करं वृषभस्य च ॥ २०७ ॥ श्रीमेघवाहनाख्यायां मम नाम कथा ततः । आनन्दसुन्दरा विश्वे जीयादाचन्द्र कालिकम् ॥ २०८ ॥ सुधीः प्राह महाराज ! न शुभं प्रत्युताशुभम् । परावर्ते कृतेऽमुष्मिन् सूनृतं मद्वचः शृणु ।। २०९ ॥ पयःपात्रे यथा पूर्णे श्रोत्रियस्य करस्थिते । अपावित्र्यं भवेत् तत्र मद्यस्यैकेन बिन्दुना ॥ २१० ॥ एवमेषां विनिमये कृते पावित्र्यहानित: । कुलं मे ते ध्रुवं राज्यं राष्ट्रं च क्षीयतेतराम् ॥ २११ ॥ शेषे से वाविशेषं ये न जानन्ति द्विजिह्वताम् । यान्तो हीनकुलाः किं ते न लज्जन्ते मनीषिणाम् ॥ २१२ ॥ अथ राजा रुषा पूर्णः पुस्तकं तत्र्यधादसौ । अङ्गारशकटीवह्नौ जाड्यात् पूर्वं पुरस्कृते ।। २१३ ॥ ततो रोषाद् बभाणासौ गाथामेकां नृपं प्रति । पुनर्नानेन वक्ष्यामीत्यभिसन्धिः कठोरगीः ॥ २९४ ॥ सा चेयम्
490
मालविओंसि किमन्नं मन्नसि कव्वेण निव्वुइँ तंसि ।
धणवालं पि न मुंचसि पुच्छामि सर्वचणं कत्तो ॥ २१५ ॥
अथ वेश्म निजं गत्वा दौर्मनस्येन पूरितः । अवाङ्मुखः स सुष्वाप तदाऽनास्तृततल्पके ॥ २१६ ॥ न स्नानं देवपूजा न भुक्तेर्वार्तापि न स्मृता । वचनं नैव निद्रापि पण्डितस्य तदाऽभवत् ॥ २१७ ॥ मूर्त्तयेव सरस्वत्या नवहायनबालया । दुहित्रा मन्युहेतुं स पृष्टस्तथ्यं यथाह तत् ॥ २९८ ॥ उत्तिष्ठ तात ! चेद्राज्ञा पुस्तकं पावके हुतम् । अक्षयं हृदयं मेऽस्ति सकलां ते ब्रुवे कथाम् ॥ २१९ ॥ स्नानं देवार्चनं भुक्तिं कुरु शीघ्रं यथा तव । कथापाठं ददे हृष्टस्ततः सर्व चकार सः ॥ २२० ॥ कथा च सकला तेन शुश्रुवेऽत्र' सुतामुखात् । कदाचिन्न श्रुतं यावत् तावन्नास्याः समाययौ ।। २२१ ॥ सहस्रत्रितयं तस्याः कथाया अत्रुटत् तदा । अन्यत् सम्बन्धसम्बद्धं सर्वं न्यस्तं च पुस्तके ॥ २२२ ॥ अथापमानपूर्णोऽयमुच्चचाल ततः पुरः । मानाद्विनाकृताः सन्तः सन्तिष्ठन्ते न कर्हिचित् ॥ २२३ ॥ पश्चिमां दिशमाश्रित्य परिस्पन्दं विनाचलत् । प्राप सत्यपुरं नाम पुरं पौरजनोत्तरम् ॥ २२४ ॥ तत्र श्रीमन्महाबीर चैत्ये नित्ये पदे इव । दृष्टे स परमानन्दमाससाद विदांवरः ॥ २२५ ॥ नमस्कृत्य स्तुतिं तत्र विरोधाभाससंस्कृताम् । चकार प्राकृतां 'देव निम्मले 'त्यादि साऽस्ति च ॥ २२६ ॥ दिनैः कतिपयैर्भोजभूजानिस्तमजूहवत् । नास्तीति ज्ञातवृत्तान्तः किञ्चित्खेदवशोऽभवत् ।। २२७ ।। आह चेच्चिन्त्यते चित्ते कद्वदोऽस्मासु यात्वसौ । परस्तत्सदृशो नान्यस्तध्यवाग् भारतीनिभः ॥ २२८ ॥ ईदृक्पुरुषसंसर्गे मन्दभाग्या वयं ननु । 'वैशन्तस्य कथं हंसवासपुण्यं विजृंभते ॥ २२९ ॥ इत्यस्य खिद्यमानस्य चकोरस्य कुहूष्विव । प्रायाद् धर्माभिधः कौलो विद्वांस्तद्वृत्तमुच्यते ॥ २३० ॥
तद्यथा
६७. आधारोऽनन्तगोत्राणां पुरुषोत्तमसंश्रयः । आकरोऽनेकरत्नानां लाटदेशोऽस्ति वार्द्धिवत् ।। २३१ ॥ यत्र मेकलकन्योर्मिनिचयो दर्शनाज्जनम् । पवित्रयेत् तदस्ति श्रीभृगुकच्छाख्यया पुरम् ॥ २३२ ॥ तत्रास्ति वेदवेदाङ्गपारगो वाडवाप्रणीः । सूरदेव इति ख्यातो वेधा इव शरीरवान् ॥ २३३ ॥ सतीशिरोमणिस्तस्य कान्ता कान्तनयस्थितिः । सावित्रीत्याख्यया ख्यातिपात्रं दानेश्वरेषु या ।। २३४ ॥ तयोरुभावभूतां च पित्राशानिलयौ सुतौ । धर्मः शर्मश्व दुहिता गोमतीत्यभिधा तथा ।। २३५ ॥
1 N कुरुत सगिरा । 2 N A कुलमेते | 8 A निहुई। 4 A तथाह । 5 N कथापीठं । 6 A शुश्रुवे च । 7 N B देशं ।